________________
२४४
गच्छाचार-प्रकिर्णकसूत्रम् ९७ कषायवत्, 'चेव'त्ति यथार्थे यथा 'सु' इति अतिशयेन निविष्ट:-स्थितः सुनिविष्टः' पदमपि गन्तुमसमर्थ इत्यर्थः ‘पङ्गुलः' पङ्गु उत्थातुं न शक्नोतीति॥ मू. (९८) धम्मतरायभीए भीए संसारगब्भवसहीणं।
न उईरंति कसाए मुनी मुणीणं तयं गच्छं। वृ. अगाधसंसारसागरे पततां जीवानां धत्ते इति धर्म-सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो-निद्राविकथाकुमत्यादिविघ्नस्तस्माद्भीताः-त्रस्ताः, तथा 'भीताः' कम्पमानाः संसरणं संसारो-भवभ्रमणं गर्भे वसनं वसति गर्भवसति संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां, यद्वा संसारे-चतुर्गत्यात्मके गर्भवसतयस्ताभ्यः 'नोदीरयन्ति प्रशान्ताः सन्तः कुवाक्यादिनानोत्थापयन्तीत्यर्थः, कान् ?-'कषायान् कोधादीन् मुनयो मुनीनांस गच्छः। अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोघातकमरुकोदाहरणं १, मानेऽचंकारिभट्ठोदाहरणं २, मायायां पण्डार्योदाहरणं ३, लोभे आर्यमङग्वाचार्योदाहरण ४ मिति॥ मू. (९९) कारणमकारणेणं अह कहवि मुणीण उट्ठहि कसाए।
___ उदएवि जत्थ रुंभहि खामिज्जइ जत्थतं गच्छं। वृ. तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्यादिप्रयोजने सारणवारणनोदनादिकारणेवा 'अकारणे' बहिप्रयोजनाभावे वा 'ण' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्वानांकषायविपाकवेत्त णां ‘उडिहिंति' उतपद्यन्ते-प्रकटीभवन्ति कषायाः' क्रोधादयः 'उदएवित्तिउत्पद्यमाना अपियत्र रुंभेहिति' रुध्यन्ते क्षाम्यन्तेच यत्र सगच्छः॥ मू. (१००) सीलतवदानभावन चउविहधम्मंतरायभयभीए।
जत्थ बहू गीयत्थे गोयम! गच्छंतयं भणियं ॥ वृ. सीलत०॥ दीयत इति दान-सुपात्रानुकम्पादिकं १ शीलमष्टादशधाऽब्रह्मवर्जनं २ तप्यतेऽष्टप्रकारं कर्मानेनेति तपः-रत्नावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गघनप्रमुखषष्ट्यधिकशतत्रय ३६० भेदभिन्न, उक्तञ्च श्रीगणिविद्याप्रकीर्णके॥१॥ “महा १ भरणि २ पुव्वाणि, तिन्नि उग्गा वियाहिया।
एएसु तवं कुज्जा, सब्मितरबाहिरं॥ ॥२॥ तिन्नि सयाणि सट्ठाणि, तवोकम्माणि आहिया।
छग्गनक्खत्तजोएसु, तेसुमनतरं करे ॥ इति । भाव्यते-संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मयान्तरायभयभीताः, सूत्रे तु बन्धानुलोभ्यात् ‘सीलतवदानभावन'त्ति, यत्रोक्तलक्षणा बहवो गीतार्थाः-सूत्रार्थज्ञातारो भवन्ति हे गौतम! सगच्छो भणितः ।अत्रानुकम्पादानेजयराजोदाहरणं, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्याधुदाहरणं, भावनायां भरतोदाहरणं वाच्यमिति॥
उक्तमुत्तमगणस्वरूपमथाधमाधमगणस्वरूपमाहमू. (१०१) जत्थ य गोयम ! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org