________________
मू० १०१
२४५
तं गच्छं तिविहेणं वोसिरिअ वइज्ज अन्नत्थ ।।
वृ. जत्थ० ॥ यत्र गणे च हे गौतम! 'पञ्चानां' घरट्टिका १ उहषल (दूखल) २ चुल्लक ३ पानीयगृह ४ सारवण ५ लक्षणानां कथमपि 'सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसध्शानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूहं 'त्रिविधेन' मनोवाक्कायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य' परित्यक्त्वा 'व्रजेत्' गच्छेत् 'अन्यत्र' सत्परम्परागतगण इति ॥ मू. (१०२) सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविजा । जं चारित्तगुणेहिं तु उज्जलं तं तु सेविज्जा ।।
वृ. सूणा० ।। 'सूनारम्भप्रवृत्तं' षड्जीवमर्दनपर खण्डन्याद्यधिकरणकर्त्तारं वा 'गच्छं' साध्वाभासगणं वेषेण-कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्वलं- सागरडण्डीरवत् परमश्वेतं वेषोज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धत्वात्, कीदृशं सेवेत ? इत्याह- 'यं' गणं 'चारित्रगुणैः' समितिगुप्त्यादिगुणैः 'उज्ज्वलं ' निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि तं गणं सेवेत, तुशब्दात्तद्गतमुनीनां वैयावृत्यादिकमपि कुर्वीत संसारक्षयहेतुकत्वादिति ॥
मू. (१०३)
जत्थ य मुणिणो कयविक्क याइं कुव्वंति संजमब्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिजा ॥
वृ. जत्थ य० ॥ यत्र गमे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः 'कय'त्ति मूल्येन वस्त्रपात्रौपधशिष्यादिकं स्वीकुर्वन्ति 'विक्कयाई' ति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये' त्यत्र चकारादन्यैः क्रयविक्रयादिकं कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः ?
संयमात्-पृथिव्यादिसप्तदशविधात् भ्रष्टाः - सर्वथा यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः 'तं' पूर्वोक्तस्वरूपं 'गच्छं' गणं गुणानां - ज्ञानादिगुणानां सागरः- समुद्रो गुणसागरस्तस्यामन्त्रणं 'हे गुणसागर !' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूरं' अदर्शनं यथा स्यात्तथा परिहरेत् । अत्र विषं तूपमामात्रं येन विषादिक (ना) मरणं भवति न वा, परं गुणभ्रष्टगच्छसङ्घात् कुमतिग्रस्तगणसङ्गाच्चानन्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति ॥
मू. (१०४)
आरंभेसु पसत्ता सिद्धंतपरंमुहा विसयगिद्धा ।
मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं ।।
वृ. आरंभे० ।। बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षेण - मनोवाक्कायव्यापारेण सक्ताः-तत्पराः प्रसक्ताः, यद्वा आरम्भेषु - जीवोपमर्दकारिषु परिग्रहादिषु सक्ता-मेलनपालनादितत्परास्तान् सिद्धान्तेषु - आचाराङ्गादिश्रुतरनेषु पराङ्मुखाः- विपरीतवक्रास्तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च तत्र कामः - शब्दरूप - लक्षणः भोगो-गन्धरस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन् हे गौतम! 'वसेत्' निवासं कुर्यादिति, मध्ये, केषां ? – सुष्ठु - मनोवाक्कायेन शोभनमनुष्ठानं विहितं -निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org