________________
२३८
गच्छाचार प्रकिर्णकसूत्रम् ८२
धावण डेवण लंघण ममकाराऽवण्णउच्चरणं ॥
वृ. हासं० ॥ 'हास्यं' सामान्येन हसनं वक्रोक्त्या हसनं वा 'खेड्डा' इति क्रीडा बालकवद्गोलकादिना रमणमित्यर्थः, क्रीडा वाऽन्ताक्षरिका प्रहेलिकादानादिरूपा, 'कंदप्प' त्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिका२भियोगिका ३ऽऽ सुरिक४ मोहभावनाः ५, तत्र मायया परविप्रतारणवचनं वाऽट्टट्टहासहसनं अभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथा कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना १ ।
सातरसद्धिहेतवे यन्मत्रयोगभूतिकर्मदिकरणं तदाभियोगिकभावना २, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनांच निन्दाकरणंतत्किल्बिषिकभावना ३, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना ४, यदात्मवधार्थं शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना ५ ।
‘नाहियवायं’ति नास्तिकवादः, यथा नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं इत्यादिकं ‘नाहियवायं’ति मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षाकल्पादिक्षालनं ‘डेवनं' वेगेनाश्ववद्भमनं कोशिकतापसवत्, 'लङ्घनं 'वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' परस्परकलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' अवर्णवादकथनमर्हदादीनामिति ॥ जत्थित्थीकरकरिसं अंतरिअं कारणेऽवि उप्पन्ने ।
मू. (८३)
दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥
वृ. जत्थित्थी० ॥ यत्र गणे 'स्त्रीकरस्पर्श' साध्वीहस्तसङ्घट्टनं, उपलक्षणत्वात्पादादिसंघट्टनं 'अंतरिअ' मिति विना 'कारणे' त्ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणं, 'अपि समुच्चये, किंभूतं कारणं ? - 'उत्पन्नं' संजातं, दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छः, यद्वा यत्र स्त्रीकरस्पर्शं गृहस्थरामाकरपादादिसङ्घट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति ॥
मू. (८४)
बालाए वुड्ढाए नत्तु अदुहिआइ अहव भइणीए ।
नय कीरइ तणुफरिसं गोयम ! गच्छं तयं भणियं ॥
वृ. बालाए० ।। ‘बालायाः’ अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः उपलक्षणत्वान्मध्यमायाः एवंविधायाः 'नप्नुकायाः' सुतसुतायाः 'दुहितृकायाः' सुतासुतायाः अथवा 'भगिन्याः ' याम्याः उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणं 'तनुस्पर्श' अङ्गस्पर्शो न च क्रियते हे इन्द्रभूते ! स गच्छः ।
अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्याः, यतः पुरुषस्पर्शेन पुरुषस्य मोहोदयो भवति न वा, यदि भवेत्तदा मन्दो न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुष स्य नियमाद्भवति मोहोदय उत्कटः १ ।
एवं स्त्रियाः स्त्रीस्पर्शे सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः २ । तथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International