SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ मू०८४ २३९ पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः ३ । एवं स्त्रिया अपि भावनीयम्। तथैवमिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् । स्पर्श उदाहरणानि यथा-"आनंदपुरंनगरंजितारी राया, वीसत्या भारिया, तस्सपुत्तोअनंगोनाम,बालत्तेअच्छिरोगेण गहिओ निच्चं रुयंतो अच्छइ, अन्नया जननीए निगिनठियाए अहाभावेण जानूरुअंतरे छोढुं उवगूढिओ, दोऽवितेसिं गुज्झा परोप्परं समफिडिया, तहेव तुण्हिको ठिओ, लद्धोवाओ, रूयंतं पुणोपुणो तहेव करेइठायइरुयंतो, पवड्डमाणो तत्थेव गिद्धो मोत्तुंपियं बिलपंती, पिता से मओ, सो रज्जे ठिओ, तहावितं मायरं परिभुंजइ, सचिवाईहिं बुज्झमाणोवि नो ठिओत्ति १॥ तथा-“एगो वणिओ, तस्स महिला अतीव इट्ठा, सो वाणिज्जेण गंतुकामोतं आपुच्छइ, तीए भणियं-अहंपिगच्छामि, तेण सानीया, सा गुम्विणी, समुद्दमज्झे विणटुंपवहणं, सा फलगं विलग्गा अंतरदीवे लग्गा, तत्येव पसूया दारगं, स दारगो संवुडो, सा तत्थेव संपलग्गा, बहुना कालेणअन्नपवहणेदुरुहित्तासणगरमागया, तीए वुग्गाहिओसो मा लोगवुत्तेणअहंजननित्तिकांउ परिच्चइयव्वा, सलोगेण भण्णइ-अगम्मगमणंमा करेहि, परिचयाहि, तहावि नो परिचयतित्ति २॥ तथा-“वासुदेवज्येष्ठभ्रातृजराकुमारपुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ, तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिवेन सर्वकुलवंशे प्रक्षीणे ते त्रयोऽपि कुमारत्वे प्रव्रजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थं गन्तु शक्नोति, तरुणाः पृष्ठत आगच्छन्ति, तनिमित्तमुपाश्रयेऽप्यागच्छन्ति, गणिन्या गुरोः कथितं, तदा गुरुणा स्वभ्रातरौ रक्षार्थभिन्नोपाश्रये तत्पाद्ये मुक्तौ, तौ सहस्रयोधिनौ, तयोरेको भिक्षा हिण्डति अन्यस्तां रक्षति । एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनैः क्षीणा मूर्छा गता, मृतेतिकृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मार्गे शीतलवातेन गतमूर्छा भ्रातृस्पर्शेन सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा उत्थिता, आसन्नं व्रजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः तयोक्तं-किं निरीक्षेथः? तौ भणतः-अस्मद्भगिनी तव सध्क्षाऽभूत्, किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः, तयोक्तं सत्यं जानीथः,अहमेव सा, तया सर्वंपूर्वस्वरूपंकथितं, ताभ्यांसावयःपरिणता सार्थवाहान्मोचिता दीक्षिता आलोच्य स्वर्गतेति॥ किञ्चमू. (८५) जत्थित्थीकरफरिसं लिंगी अरिहावि सयमवि करिज्जा । तंनिच्छयओ गोयम ! जाणिज्जा मूलगुणभट्ट । . वृ.जस्थित्थी०॥यत्रगणेस्त्रीकरस्पर्श लिङ्गी मुनि, किंभूतः? –'अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात्तंगच्छं निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति पाठान्तरे तु-“जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज सयं, तं गच्छं मूलगुणमुक्कं ।।" सुगमा । अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधाचार्यस्य दृष्टान्तो ज्ञेय Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy