SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मू०७८ २३७ मू. (७८) इच्छिज्जइ जत्थ सया बीयपएणावि फासुअं उदयं । आगमविहिणा निउणं गोअम! गच्छंतयं भणियं॥ वृ.इच्छि०॥हे इन्द्रभूते! 'इष्यते' वाञ्छा क्रियते यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि प्रगता असवः- प्राणा जीवा यस्मात्तत्प्रासुकं, किं ? 'उदकं' जलं 'आगमविधिना' आचाराङ्गनिशीथादिसिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात्तथा गच्छो भणितः मू. (७९) जत्थ य सूलिविसूइय अन्नयरे वा विचित्तमायंके। उप्पन्ने जलज्जालणाइ न करइ तयं गच्छं। वृ. जत्थ०॥अत्र च गणेशूले विशूचिकायां च, आर्षत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे' अनेकविधे 'आतङ्के सद्योघातिरोगे उत्पन्ने प्रादुर्भूतेसतिज्वलनस्य-अग्नेरुज्वालनंप्रज्वलनं ज्वलनोज्ज्वालनं अग्न्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोषं, स गच्छः, आवश्यकोक्ताषाढाचार्यवदिति॥ मू. (८०) बीयपएणं सारूविगाइ सवाइमाइएहिं च। कारिती जयणाए गोयम ! गच्छं तयं भणियं ॥ वृ.बीय० ॥ द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति यतन या' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-“साहुणो सूलं विसुइया वा होज्जा, तो तावणे इमा जयणा-महापीडाए जत्थ अगनी अहाकजो झियाइ तत्थ गंतुं सूलादि तावेयव्वं जइ गिहवइणो अचियत्तं न भवइ, अहव गुज्झगाणि तावेयव्वाणि ताणिय गिहत्थपुरओ न सकति तावेउं तोन गम्मइ” इत्यादियतनाविशेषो विशेषजैर्विशेषसूत्राद्विज्ञेयः। तत्रप्रथममुण्डितशिराः शुक्लवासःपरिधायी कच्छांन बघ्नीतअभार्याको भिक्षांहिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावेसभार्याको वाशुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यक्तचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे भद्रकान्यतीर्थिकस्तस्य समीपे कारयन्त्यग्नियतनांयत्र हे इन्द्रभूते! 'तयं ति स गच्छो भणितो मयेति॥ मू. (८१) पुप्फाणं बीआणं तयमाईणं च विविहदव्वाणं । संघट्टणपरिआवण जत्थ न कुज्जा तयं गच्छं। वृ. पुष्फाणं० ॥ पुष्पाणि चतुर्विधानि, जलजानि १ स्थलजानि २, तत्र जलजानि सहस्रपत्रादीनि १ स्थलजानि-कोरण्टकादीनि २, तान्यपि प्रत्येकं द्विविधानि-वृन्तबद्धानिअतिमुक्तकादीनि ३ नालबद्धानि च-जातिपुष्पप्रभृतीनि४, तत्र यानि नालबद्धानितानि सर्वाणि सङ्खयेयजीवानि। ___यानि तु वृन्तबद्धानि तान्यसङ्घयेयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि-शालीगोधूमयवबरट्टादीनि तेषां बीजानां त्वगादीनां च, आदिशब्दात्तृणमूलपत्राङ्कुरफलादीनां, विविधसजीवद्रव्याणां संघट्टनं-स्पर्शनं परितापनं-सर्वतः पीडनं यत्र न क्रियते स गच्छः॥ . मू. (८२) हासं खेड्डा कंदप्प नाहियवायं न कीरए जत्थ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy