________________
२२८
गच्छाचार - प्रकिर्णकसूत्रम् ५६
सति 'तहत्ति' त्ति तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः 'भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति ॥ मू. (५७) दुरुज्झिय पत्ताइसु ममत्तए निप्पेहे सरीरेऽवि । जायमजायाहारे (जत्तयमत्ताहारे) बायालीसेसणाकुसले ।।
वृ. दूरु० ॥ 'दूरुज्झिय'त्ति प्राकृत्वाद्विभक्तिलोपः दूरतस्त्यक्तं ममत्वं, क्व ? - पात्रादिषु, आदिशब्दाद्वस्तुवसतिश्राद्धनगरग्रामदेशादिषु यैरिति शेषः, तथा 'निस्पृहाः' ईहारहिता मेघकुमारादिवत् 'शरीरेऽपि' स्ववपुष्यपि, 'यात्रामात्राहारकाः' तत्र यात्रा - संयमगुरुवैयावृत्यस्वाध्यायादिरूपा मात्रा तु तदर्थमेव पुरुषस्त्रीषण्ढानां द्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति ।
कवलप्रमाणं च कुक्कुट्यण्डं, कुक्कुट्या अण्डं कुकुट्टयण्डं, कुकुटी द्विधा - द्रव्यभावभेदतः, द्रव्यकुकुटी द्विधा - उदरकुकुटी १ गलकुकुटी च २, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्याघ्रातं स आहार एव उदरकुकुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्प्रमाणं कवलस्य १ ।
गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः - अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति तत्प्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याघ्रातं स्यादुदरं घृतिं च समुद्वहति तावत्प्रमाण आहारो भावकुकुटीति २ ।
यद्वा 'जायमजायाहारे'त्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः - निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति ।
अथवा जातो- गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निस्पृहाः, अजातो- गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति ।
तथा 'द्विचत्वारिंशदेषणाकुशलाः ' तत्रैषणा चतुर्धा, कस्याप्येषणे ति नामेति नामैषणा १, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा २, द्रव्यैषणा - सचित्ताचित्तमिश्रद्रव्यभेदात्रिधा ३, भावैषणाऽपि गवेषणा १ ग्रहणैषणा २ ग्रासैषणा ३ भेदात्त्रिधा, तत्र गवेषणायामाधाकर्मादिधात्र्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोज - नादिपञ्चदोषा विज्ञेया इति ॥
मू. (५८)
तंपि न रूवरसत्थं न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वहणत्थं ॥
वृ. तंपि न० ॥ 'तमपि ' आहारं न 'रूपरसार्थं' तत्र रूपं - शरीरलावण्यं रसश्च - भोजनास्वादस्तदर्थं न 'न च वर्णार्थं' न च शीरकान्त्यर्थमित्यर्थ, 'न चैव दर्पार्थं' न चानङ्गवृद्धयर्थं भुञ्जीतेति शेषः, किन्तु 'संयमभरवहनार्थं चारित्रभारवहनार्थं भुञ्जीत, किमिव ? -अक्षोपाङ्गमिव वहनार्थम्, एतदुक्तं भवति-यथाऽभ्यङ्गं शकटाक्षे युक्त्या दीयते न चातिबहु न चातिस्तोकं भरवहनार्थं साधूनामाहारः ॥
तमपि कारणे भुङ्क्तेऽतः कारणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org