________________
मू०५३
२२७ 'गुप्ताः' नवब्रह्मचर्यगुप्तिमन्तः श्रीस्थुलभद्रवत्, मुक्ताः' नलोभयुक्ताजम्बूस्वाम्यादिवत्, वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत्, दशविधसामाचार्याम्उक्तलक्षणायामुधुक्ताः, अवश्यं कर्तव्यमावश्यकं यद्वा गुणानां आ-समन्ताद्वश्यं करोतीत्यावश्यकं, गुणशून्यमात्मानं आ-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं तत्रोद्युक्ताः-तत्पराः॥ मू. (५४) खरफरुसकक्कासाए अनिट्टदुट्ठाइ निहुरगिराए।
निब्भच्छणनिद्धाडणमाईहिं न जे पउस्संति॥ वृ. खर० ॥ खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये' मुनयो ‘न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्रखरारे मूढ ! रेअपण्डित! इत्यादिका, पुरुषारेप्रमादिन्!रे कुशील! रेसामाचारीभञ्जक इत्यादिका, कर्कशा २ जिनाज्ञाभञ्जक! रे उत्सूत्रभाषक ! रेव्रतभअक! इत्यादिका, अनिष्टारे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो व्रज, रे वीरवचनोल्लङ्घक ! स्वस्थानं कुरु इत्यादिका।
दुष्टारेआचारतस्कर! रेजिनप्रवचननगरप्राकारच्छिद्रकर्तः! रेजिनागमकोशार्थरत्नचौर इत्यादिका, निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक ! रे निलवकुशीलसङ्गकर्तः ! रेजिनाज्ञारामच्छेदक! इत्यादिका, निर्भर्त्सनम्-अङ्गुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वाप्रवाहेणैकार्थिकाएतेशब्दाः, यद्वाऽन्योऽपियः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति॥ मू. (५५) जे अन अकित्तिजणए नाजसजणए नाकजकारी य ।
नपवयणुड्डाहकरे कंठग्गयपाणसेसेऽवि॥ वृ. जे अ०॥ ये' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकाः, तत्र सर्वदिगव्याप्यसाधुवादोऽकीर्तिः, अयशो-निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिगव्याप्यसाधुवादोऽशब्दः, तत्स्थानएवासाधुवादोऽश्लाघेति, ‘नाकार्यकारिणः' नासदनुष्ठानकर्तारः। . 'न प्रवचनोड्डाहकाराः' न प्रवचनमालिन्यकर्तारः, कण्ठे गतः-प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन बहुप्रदेशबहिकर्षणेन, एवंविधेऽपयवसरे येईधग्विधास्तेसुन्दरान्तेवासिनः, यद्वा कण्ठगतः-कण्ठागतःप्राणस्य-बलस्य शेषो यत्र, एवं विधेऽप्यवसरे ये ईगविधास्ते धन्या इति ॥ मू. (५६) गुरुणा कज्जमकज्जे खरकक्कसदुट्ठनिहरगिराए।
भणिए तहत्ति सीसा भणंति तं गोअमा! गच्छं। वृ.गुरु०॥'गुरुणा' स्वाचार्येण कार्यंचाकार्यंचकार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्य, अन्यथोत्तमानांकिमपि बाह्यान्तरकार्यं विना जल्पनंनसंभवतीति, यद्वा कार्य-सनिमित्तं अकार्य-प्रधाननिमित्तरहितमिति। ‘खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया भणिते' कथिते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org