________________
२२६
गच्छाचार-प्रकिर्णकसूत्रम् ५२ 'सुविनीताः' शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः-शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचाराङ्गनिर्युकती॥१॥ "इत्थीसक्कारे परीसहाय दो भावसीयला एए।
सेसा वीसई उण्हा परीसहा होति नायव्वा ।। ॥२॥ जे तिव्वपरीणामा परीसहा ए भवंति उण्हा उ।
जे मंदपरीणामा परीसहा ते भवे सीया ॥ तथाच ज्ञानावरण १ वेदनीय २ मोहनीया ३न्तरायेषु ४ क्षुत्पिपासा २ शीतोष्ण ४ दंशा ५ चेला ६ रति ७ स्त्री ८ चर्या ९ नैषेधिकी १० शय्या ११ऽऽक्रोश १२ वध १३ याचा १४ ऽलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कार १९ प्रज्ञा २० ऽज्ञान २१ सम्यक्त्व २२ लक्षणा द्वाविंशतिरप्यवतरन्ति ।
यथा दर्शनमोहे सम्यक्त्वपरीषहः, तदुदये तस्य भावात् १, प्रज्ञाऽज्ञाने द्वेज्ञानावरणे ३, अलाभोऽन्तराये ४, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति ११।
क्षुत्पिपासा २ शीतोष्ण ४ दंश ५ चर्या ६ शय्या ७ मल ८ वध ९ रोग १० तृणस्पर्श ११ एते एकादश वेदनीयोदये भवन्ति ।
शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीषहाणामिति । तथा नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिन्नुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्यां वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिकीं तस्मिन् चर्यां न वेदयतीति।
सूक्ष्मसंपराये-दशमगुणस्थानेक्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपारूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्चेति।
तथा उपशान्तमोहे-एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्य क्षपितत्वेनोपशमितत्वेन वा दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादशपरीषहाः संभवन्ति, यथा क्षुत् १ पिपासा २ शीतो ३ ष्ण ४ दंश ५ चर्या ६वध ७मल ८ शय्या ९ रोग १० तृणस्पर्श ११ रूपाः, जिने वेद्यस्य संभवात् न यांति।।
शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च न च पुनर्वेदयति, धिया राजन्त इति धीराःवज्रस्वामिवत्, नापि स्तब्धा-नाहङ्कारपराः स्कन्धकवत्, नापिलुब्धा-नाहारोपिपात्रादिगृद्धा धन्यमुनिवत्, न गौरविता-न गौरवत्रिकासक्ता मथुरामङ्गुशिष्यवत्, न विकथाशीला-न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् ॥ मू. (५३) खंते दंते गुत्ते मुचे वेरग्गमग्गमल्लीणे।
दसविहसामायारीआवस्सगसंजमुज्जुत्ते ।। वृ.खते०॥ क्षान्ताः' क्षमायुक्ता गजकुसुमालवत्, ‘दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org