________________
मू०४९
२२९
मू. (५९) वेअण १ वेयावच्चे २ इरिअट्ठाए अ३ संजमट्ठाए४॥
तह पाणवत्तिआए ५ छटुंपुण धम्मचिंताए ६.. वृ. वेअण०॥ क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सशी वेदना, उक्तञ्च॥१॥ "पंथसमा नत्थि जरा, दारिद्दसमो परिभवो नत्थि। .
मरणसमं नस्थि भयं, छुहासमा वेयणा नत्थिः॥" अतस्तप्रशमनार्थं भुञ्जीत १, बुभुक्षितः सन् वैयावृत्यं कर्तुन शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्यकरणाय भुञ्जीत २, ईर्यार्थ ईसिमित्यर्थं ३, संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीतिकृत्वा ४।।
__ तथाप्राणा-जीवितंतेषांवृत्यर्थं-रक्षार्थंपरिलापननिमित्तमित्यर्थ ५, षष्ठंपुनर्धर्मचिन्तार्थम्, सूत्रार्थानुचिन्तनादिलक्षणंशुभचित्तप्रणिधानं, एतदपिबुभुक्षितःक्तुंन शक्नोतीतिकृत्वा भुञ्जीतेति शेषः६॥ मू. (६०) जत्थ य जिट्टकनिट्ठो जाणिज्जइ जिट्टवयणबहुमाणो।
दिवसेणविजो जिट्टो न य हीलिजइ स गोअणा! गच्छो । वृ. जत्थ य०॥ यत्र गणे 'ज्येष्ठः' व्रतपर्यायेण वृद्धः 'कनिष्ठः' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि, ज्ञायते अयंज्येष्ठः अयं लघुःअयंमध्यमः इत्येवंप्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते?-ज्येष्ठवचनंतस्य तस्मिन् वाबहुमान-सन्मानंयत्पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति।
तथा यत्र दिवसेनापि यो ज्येष्ठः स न हील्यते वचनोल्लङ्घनसम्मुखजल्पनमर्मोद्घाटनादिप्रकारेण चकारा यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते वज्रं प्रति सिंहगिरिशिष्यरत्लवृन्दवत् हे गौतम ! स गच्छ इति । अथाऽऽाधिकारमाहमू. (६१) जत्थ य अज्जाकप्पो पाणच्चाएवि रोरदुभिक्खे।
न य परिभुंजइ सहसा गोयम ! गच्छंतयं भणियं । वृ.जत्थय०॥यत्रच गणेआर्याकल्पः-साध्व्यानीतंरोरदुर्भिक्षेप्राणत्यागेऽपि ‘सहस'त्ति सिद्धान्तोक्तविधिमकृत्वान परिभुज्यते, यद्वा यत्र चगणे आर्याकल्पः-साध्व्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जवाबलक्षीणश्रीअन्यकापुत्राचार्यादिवत्, हे गौतम ! 'गच्छः' गणः ‘तयं तिसःमया भणितः, आर्षत्वादत्र विभक्तिपरिणामः ।अस्य गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं कर्तव्यमिति॥
अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाहमू. (६२) जत्थ य अजाहिं समं थेरावि न उल्लवंति गयदसणा।
न य झायंति थीणं अंगोवंगाइं तं गच्छं। वृ.जत्थय०॥यत्रगणे 'आर्याभिः' साध्वीभिः 'सम' सार्द्धचकाराद्रण्डागतकान्तादिभिः स्त्रीभिः सार्धंच तरुणाःसाधव आस्तास्थविराअपि 'नोल्लपन्ति' ननिष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा, तत्र षष्टिवर्षजाता जातिस्थविराः १ समवायधराः श्रुतस्थविराः २ विंशतिवर्षपर्यायाः पर्यायस्थविराः, ३ किंभूताः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org