________________
२२४
गच्छाचार-प्रकिर्णकसूत्रम् ४४ 'हालाहलं' उत्कटं पिबेत्' गलरन्ध्रे पातयेत्, विनेय इति शेषः, किंभूतः निर्विकल्पः' सर्वथा गतशङ्कः, भक्षयेच्च विषगुटिकादिकंयद्विषगुटिकादिकं तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्रापयेदित्यर्थः॥ मू. (४५) परमत्थओ विसं नो तं, अमयरसायणंखुतं।
निविग्घंजंन तं मारे, मओऽवि अमयस्समो॥ वृ. ‘परमार्थतः' तत्वतः तद्विषं न भवति, ‘अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं विघ्नविवर्जितं यद्' यस्मात्कारणात् नतद्विषंमारयति-न प्राणत्यागंकरोति, अतः कथमपि मृतोऽपि मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वसुखहेतुत्वादिति, गीतार्थस्येत्यत्रचतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः १ न संविग्ना नाम एके गीतार्थाः २ संविग्ना नाम एके गीतार्था अपि ३ न संविग्ना नाम एके नो गीतार्थाः ४।
तत्रनप्रथमभङ्गस्थाधर्माचार्याः आगमपरिज्ञानाभावात् १ द्वितीयभङ्गस्थाअपिन धर्माचाश्चिारित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून वन्दन्ते साधूंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति २ तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात्, नन्वेवंविधास्तु गणधरादय एव भवन्ति न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां ? उच्यते-वर्तमानकाले यत्सूत्रं वर्तते तस्य गुरुपरम्परया गृहीतार्था विनिश्चितार्था गीतार्था भवन्ति, दुःषमासेवार्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्नाएव अतोन तेषां धर्माचार्यत्वं व्यभिचरतीति ३, चतुर्थभङ्गस्था अपि न धर्माचार्या, ज्ञानक्रियाशून्यत्वात् केवललिङ्गमात्रोपजीवित्वाच्चेति ४॥अथोक्तविपरीतमाहमू. (४६) अगीअत्थस्स वयणेणं, अमियंपि न घुटए।
जेण नो तं भवे अमयं, जं अगीअत्थदेसियं॥ मू. (१७) परमत्थ नतं अमयं, विसं हालाहलं खुतं।
न तेण अजरामरो हुजा, तक्खणा निहणं वए। वृ. अगी० ॥ पर० ॥ ‘अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत्, येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितंपरमार्थतो न तदमृतं, विषं हालाहलं 'खु निश्चितं, न तेनाजरामरो भवेत्, तत्क्षणादेव निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः ॥किञ्चमू. (४८) अगीअत्थकुसीलेहिं, संगं तिविहेण वोसिरे।
___ मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥ वृ.अगी०॥अगीतार्थाश्च कुशीलाश्चतैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, “सङ्ग संसर्ग 'त्रिविधेन' मनोवाक्कायेन, तत्र मनसा चिन्तनम् अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने
॥१॥ “वासलक्खंपि सूलिए, संभिन्नो अच्छियामुहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org