________________
२२३
मू०३९ अन्तेवासिवृन्दंनप्रेरयति संयमानुष्ठान इतिशेष-'तेन' आचार्येण 'आज्ञा' जिनमर्यादा विराधिता' खण्डितेत्यर्थः॥ मू. (४०) संखेवेणं मए सोम!, वन्नियं गुरुलक्खणं।
गच्छस्स लक्खणं धीर!, संखेवेणं निसामय॥ वृ.संखे०॥ सङक्षेपेण विस्तराभावेन मया हे सौम्य!' हेविनेय! वर्णितं' प्ररूपितमित्यर्थः गृणाति-वदति तत्वमिति गुरुस्तस्य लक्षणं-चिह्नम् । अथेति शेषः ‘गच्छस्य' मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङक्षेपेण 'निशामय' आकर्णयेति॥ मू. (४१) गीअत्थे जे सुसंविग्गे, अनालस्सी दढव्वए।
अक्खलियचरिते सययं, रागदोसविवज्जिए। वृ.गीअ०॥गीतं-सूत्रमर्थस्तस्य व्याख्यानं तद्वयेन युक्तो गीतार्थ यः ‘सुसंविग्गे'त्ति अत्यर्थं संवेगवान् न विद्यते आलस्यं वैयावृत्यादौ यस्यासौ 'अनालस्यः' आलस्यरहित इत्यर्थ हंढानि-सुनिश्चलानिव्रतानि-महाव्रतलक्षणानि यस्यासौ हेढव्रतः,अस्खलितम्-अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासौ अस्खलितचारित्रः ‘सततं' अनवरतं 'रागद्वेष विवर्जितः' तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति॥ मू. (४२) निद्ववियअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए।
विहरिजा तेण सद्धिं तु, छउमत्येणवि केवली। तनिष्ठापितानि-क्षयं नीतानि अष्टौ मदस्थानानि-जाति १ कुल २ रूप ३ बल ४ लाभ ५ श्रुत ६ तपो ७ विभव ८ लक्षणानियेनासौ निष्ठापिताष्टमदस्थानः, शोषिताः-दुर्बलीकृताः कषायाः-सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितानि आत्मवशीकृतानि इन्द्रियाणि श्रोत्र १ ग २ नासा ३ जिह्वा स्पर्शन ५ मनो ६ लक्षणानि येनासौ शोषितकषायः, जितानि-आत्मवशीकृतानि इन्द्रियाणि-श्रोत्र १ ग २ नासा ३ जिह्वा ४ स्पर्शन ५ मनो ६ लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः तेन छद्मस्थेनापि सार्द्ध 'केवली' केवलज्ञानी ।। अथोक्तविपरीतैः सार्द्ध विहारो न विधेय इत्याहमू. (४३) जे अणहीयपरमत्था, गोअमा संजया भवे।
तम्हा ते विवजिज्जा, दुग्गईपंथदायगे। वृजेअ०॥'ये मुनयः अनधीता-अनभ्यस्ताः परमार्थाः-येआश्रवाः-कर्मबन्धस्थानानि ते परिश्रवाः कर्मनिर्जरास्थानानि १, ये एवपरिश्रवा-निर्जरास्थानानितान्येवाश्रवाः-कर्मबन्धस्थानानि २, येऽनाश्रवास्तेऽप्यपरिश्रवाः-कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् ३, अपरिश्रवाःकर्मबन्धस्थानानि तेऽनाश्रवा-न कर्मबन्धस्थानानि कणवीरलताभ्रामक क्षुल्लकस्येव ४, इत्याद्यागमपरिज्ञानरूपायैस्तेऽनधीतपरमार्था हेगौतम! संयता भवन्तितस्मात्तानपि विवर्जयेत्' दूरतस्त्यजेत्, किंभूतान् ? -'दुर्गतिपथदायकान्' तिर्यगनरककुमानुषकुदेवमार्गप्रापकानित्यर्थः
अथ गीतार्थोपदेशः सर्वोऽपि सुखावहो भवतीत्याहमू. (४४) गीअत्थस्स वयणेणं, विसं हालाहलं पिवे ।
निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ।। वृ. 'गीतार्थस्य' अधीतगुरुपार्श्वसूत्रार्थस्य 'वचनेन' उपदेशेन विषं' गरलं, किंभूतं?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org