________________
मू०१४
२१५
'निभालयति' जिनोपदेशेनचिन्त्यतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्गजिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यो मोक्षमार्गवाहकः कथितः॥
अथ मोक्षमार्गभञ्जकः कथ्यतेमू. (१५) संगहोवग्गहं विहिणा, न करेइ अजो गणी।
समणं समणिं तु दिक्खित्ता, सामायारिंन गाहए। वृ. सङ्ग्रह-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च-तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयतियः कश्चित् ‘गणी' आचार्याभासः, तथा श्रमणंच श्रमणी दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरेजयं चिट्टे' इत्यादिरूपां सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपिन सूत्रार्थं ददाति सोऽयोग्य इति॥ मू. (१६) बालाणं जो उ सीसाणं, जाहाए उवलिंपए।
नसम्ममग्गंगाहेइ, सो सूरी जाण वेरिओ॥ वृ. बाला० ॥ 'बालानां' प्रश्नव्याकरणोक्तानां यो-गणी 'शिष्याणां' अन्तेवासिनां, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयम्अत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान्करोतीत्यर्थः, 'सम्यग्मार्ग मोक्षपथं न ग्राहयति' न दर्शयति न शिक्षयतित्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो-गणाधीशो 'वैरी' रिपुरिति त्वंजानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्यं वैरिणंजानीहित्वमिति॥
अथासद्गुरुसद्गुर्वोः किञ्चित्स्वरूपं दर्शयतिमू. (१७) जीहाए विलिहंतो न भद्दओ सारणाजहिं नत्थिं।
दंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ वृ.जीहाए०॥ जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यों 'न भद्रो' न कल्याणकृत्यत्र गणिनि- गुरौ ‘सारणा' हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा,उपलक्षणत्वाद्वारणाअहितान्निवारणलक्षणा चोयणा-संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवाशां विधातुमित्यादिवचनेनप्रेरणा, प्रतिचोदना-तथैवपुनःपुनःप्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि-यष्ट्यापि, अपिशब्दाद्दवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स आचार्यो भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति ॥अथ विनेयनिर्गुणत्वमाहमू. (१८) सीसोवि वेरिओ सो उ, जो गुरुं नवि बोहए।
पमायमइराघत्थं, सामायारीविराहयं ॥ वृ.सीसो० ॥ 'शिष्योऽपि' स्वहस्तदीक्षितोऽपि वैरी' शत्रुस यो ‘गुरुं' धर्मोपदेशकं 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्वा सन्मार्गे न स्थापयति, किंभूतं प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमादमदिरा तया ग्रस्तम्-आच्छादितं तत्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाङ्गोक्तशेलकाचार्यवत्येन चातुर्मासिकमपि न ज्ञातमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org