SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ गच्छाचार - प्रकिर्णकसूत्रम् १२ प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोर्द्वयोर्गीतार्थयोर्गूढपदैरालोचनाजातातीचारनिवेदनमाज्ञाव्यवहारः कोऽर्थः ? - यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थी क्षीणजङ्घाबली विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारसेवनपदानि कथयित्वा प्रेषयति तेन च गत्वा गूढपदेषु कथितेषु स आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्रागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति ३ । इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य कचिदपराधे या शुद्धि प्रदत्ता तां तथैवावधार्य सोऽपि शिष्यस्तथैवापराधे प्रयुङ्क्ते तदाऽसौ धारणाव्यवहारः, उध्धृ तपदधरणरूपा वा, कश्चित्साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्योध्धृ तपदानि ददाति, तेषां पदानां धरणं धारणाव्यवहारः ४, द्रव्यादि विचिन्त्यसंहननादीनां हानिं ज्ञात्वा चोचितेन केनचित्तपः प्रकारेण यां गीतार्था शुद्धिं दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्त्तितं अन्यैश्च बहुभिरनुवर्त्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थोऽनेकदोषसम्भवादिति, अपिशब्दादनेकभव्यानां विधिना दत्तालोचनस्तेनापीति । अथालोचनायां दृष्टान्तमाह पू. (१३) जह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अत्तणो वाहिं । विजुवएसं सुच्चा पच्छा सो कम्ममायरइ ।। वृ. जह सु०॥ यथा सुष्ठु कुशलोऽपि - भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयः प्राप्तोऽपि, 'वैद्यः' चिकित्साकर्त्ता 'आत्मनः' स्वस्य 'व्याधिं' रोगोत्पत्तिं 'अन्यस्य' परवैद्यस्य 'कथयति' यथास्थितं निरूपयति, 'वैद्योपदेशं' वैद्यनिरूपितं 'श्रुत्वा' आकर्ण्य 'पश्चात्' परवैद्यकथनानन्ततरं सः - वैद्यस्तद्वैद्यौक्तं 'कर्म्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थ, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति ॥ १३ ॥ अथाचार्यकृत्यं किञ्चिदाहमू. (१४) देसंखित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संग साहुवग्गं च, सुत्तत्थं च निहालई ॥ वृ. देसं० ॥ ‘देशं’ मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गाद्युक्तविधिना चीवरं 'पात्रं ' पतद्ग्रहादिकं 'उपाश्रयं' स्त्रापशुपण्डकवर्जितमुनियोग्यालयं संगृह्णीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके - आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति । तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्गं च नतु हीनाचारवर्गं, तथा सूत्रं - गणधरादिबद्धं तस्यार्थो नियुक्ति भाष्यचूर्णिसङ्गहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy