________________
२१६
अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याहमू. (१९)
गच्छाचार - प्रकिर्णकसूत्रम् १८
तुम्हारिसावि मुनिवर ! पमायवसगा हवंति जइ पुरिसा । तेणऽन्नो को अम्हं आलंबण हुज्ज संसारे ॥
वृ. तुम्हा० ॥ युष्माध्शा अपि हे 'मुनिवर !' श्रमण श्रेष्ठ 'प्रमादवशगाः ' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः पुमांसः तेन कारणेन 'अन्यः' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचञ्चरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतुर्गत्यात्मके पततामिति ॥ पू. (२०)
नाणंमि दंसणंमि य चरणंमि य तिसुवि समयसारेसु । चोइ जो ठवेडं गणमप्पाणं च सो अ गणी ॥
वृ. नाणं० ॥ 'ज्ञाने' अष्टविघज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समयसारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'चोएइ' त्ति प्रेरयति यो 'गणी' सूरि, किं कर्तुं ? - स्थापयितुं, कं ? - 'गणं' कुलसमुदायरूपं 'आत्मानं च' स्वयं च, चशब्दात् श्रोतृवर्गं च, स च 'गणी' आचार्य कथितो गणधरादिभिः ॥ पिंडं उवहिं सिज्जं उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्टा सोहिंतो होइ स चरित्ती ॥
मू. (२१)
वृ. पिंडं० ॥ पिण्डं' चतुर्विधाहारलक्षणं ।
'उपधिं' औघिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा - मुखवस्त्रिका १ पात्रकेशरिका २ गुच्छकः ३ पात्रप्रस्थापनं ४ चेति चतुर्विधो जघन्यः, पटलानि १ रजस्त्राणं २ पात्रबन्धः ३ चोलपट्टः ४ मात्रकं ५ रजोहरणं ६ चेति षड्विधो मध्यमः, पतद्ग्रहः १ कल्पत्रयं ४ चेति चतुर्विध उत्कृष्टः, औपग्रहिकोपधिरपि दण्डासनक १ दण्डक २ पुस्तका ३ दिभेदेन त्रिधा स्यात्, विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुषधिस्वरूपमिति ।
'शय्यां' आचाराङ्गोक्तवसतिलक्षणां, एतत्रयमुद्गमोत्पादनैषणादोषशुद्धं ।
तत्रोद्गमः - पिण्डस्योत्पत्ति तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गमदोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्त्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति १६ ।
उत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् १६ ।
एषणा - शङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थं’ संयमपरिपालनार्थं 'शोधयन् ' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्तौ गुरुलघुदोषानन्वेषयंश्च भवति स 'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं १८० ।
एतस्माच्चाधाकर्मकं कर्मीद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International