________________
मू० ८
२११
सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए ।
वृ. मेढी० ॥ 'मेढी' त्ति मेढि - पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवर्दादिवृन्दानि मर्यादया प्रवर्त्तन्ते, 'आलम्बनं ' यथा गर्त्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगर्त्तायां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भगृहाधारो भवति तथाऽऽचार्य साधुसंयमगृहाधारः मेघसंयमगृहं प्रति श्रीवीरवत्, 'दिट्ठी' ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं' यानपात्रं यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति
जम्बूस्वामिनंप्रति श्रीसुधर्मस्वामिवत्, 'सुउत्तिम' मिति सुष्ठु अत्यर्थं दृढा गुप्तिःनवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान्, यद्वा सुष्ठु - अतिशायिनी कुमतकर्कशप्रसतरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सुउत्तम' मिति पाठे तु सुष्ठु - अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवंविधः 'सूरि' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्यं 'परिक्खए 'त्ति तस्य परीक्षां कुर्यादित्यर्थः ॥ सन्मार्गस्थिताचार्यस्वरूपं किञ्चिद्दर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह
मू. (९)
भयवं ! केहि लिंगेहिं, सूरिं उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ॥
वृ. भय० ॥ 'हे भगवन् ! ' हे पूज्य ! कैः 'लिङ्गैः' लक्षणैः सूरिं 'उन्मार्गप्रस्थितं' विरुद्धमार्गव्यवस्थितं विजानीयात् ‘छद्मस्थः ' केवलज्ञानकेवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह - 'हे मुने' हे भिक्षो! 'तत्' उन्मार्गप्रस्थिताचार्यचिह्नं 'मे' मम कथयतस्त्वं 'निसामय'त्ति शृणु - आकर्णय मू. (90) सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ॥
वृ. सच्छन्द० ।। स्वच्छन्देन - स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थं मुग्धकुमतिपातनार्थं च यः स स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्टं - जिनगुर्वाज्ञाभञ्जकत्वेन शीलम् - आचारः पञ्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलं, अथवा दुरिति कुत्सितः - परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं - स्वभावो यस्य स दुःशीलस्तं दुःशीलं, 'आरंभेसु' त्ति बहुच - नात्संरम्भसमारम्भयोर्ग्रहणं । तत्रारम्भः -- पृथिव्यादिजीवोपघातः 9 संरम्भो - वधसङ्कल्पः २ समारम्भः - परितापः ३ तेषु प्रवर्त्तकं, वर्षाकालं विनेति शेषः, पीठम् - आसनमुपवेशनार्थं, आदिशब्दात्पट्टिकदयस्तेषु प्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थ, आपो - जलमेव कायः - शरीरं यस्य सोऽप्कायः - अप्रासुकजलं तस्य विविधं - अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं घातकं अप्कायविहिंसकम् ॥
मू. (99)
मूलुत्तरगुणब्भट्ठ, सामायारीविराहयं ।
अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥
वृ. मूलु० ।। चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः - प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः पिण्डविशुद्धयादयो वृक्षस्य शाखा इवोत्तरगुणास्तेभ्यो भ्रष्टं - सर्वथा तत्राप्रवर्त्तकं, ‘सामायारीविराहयं ति त्रिधा सामाचारी - ओघनिर्युक्तिजल्पितं सर्वमोघसामाचारी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org