________________
२१०
गच्छाचार-प्रकिर्णकसूत्रम् २ स्थिते एवंविधे गच्छे' साध्वाभासगणे संवसित्ताणं ति उषित्वा 'भ्रमन्ति' परिभ्रमणंकुर्वन्तीत्यर्थः, कां ?-भवस्य-चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भवपरम्पराम्॥
अथ किञ्चिप्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयतिमू. (३) जामद्ध-जाम-दिण-पक्खं, मासं संवच्छरंपि वा।
सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा॥ वृ. 'जामे त्यादिगाथापञ्चकम् ॥ 'यामार्द्ध' प्रहरार्द्ध 'याम' प्रहरं 'दिन' अहोरात्रं पक्षं' मासार्द्ध मासं पक्षद्वयं 'संवत्सरं प्रतीतं, अपिशब्दाद्वर्षद्वयादिकंयावत्, वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते ‘गच्छे'सत्साधुगणे 'संवसमानस्य' निवास कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येतिशेषः हे गौतम ॥ किंभूतस्य । मू. (१) लीला अलसमाणस्स, निरुच्छाहस्स वीमणं।
___ पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥ वृ.लीलया-सुखत्वेन अलसमाणस्स'त्तिआलस्यं कुर्वाणस्य निरुत्साहस्य' निरुद्यमस्य 'वीमणं तिषष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'पिक्खविक्खाइ'त्ति पश्यतः साधूनां 'महानुभागानां प्रौढप्रभावाणाम् । मू. (५) उज्जमं सव्वथामेसु, घोरवीरतवाइयं ।
लजं संकं अइक्कम्म, तस्स विरियं समुच्छले ॥ वृ. 'उद्यमं' अनालस्यं सर्वस्थामसु'सर्वक्रियासु, किंभूतमुद्यमं? -'घोरवीरतवाइअंति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् 'वीर'न्ति वीरे-कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधंतप आदिर्यत्र तम्, आदिशब्दाद्दुष्करगुर्वादिवैयावृत्यं, 'लज्जा' ब्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां ‘अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत्, अहमपि जिनोक्तक्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, षष्ठाडोक्तशेलकाचार्यवत्॥ मू. (६) वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा।
___ जम्मतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥ वृ.वीर्योच्छलने फलमाह-वीर्येणतुजीवस्यसमुच्छलितेन हे गौतम ! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसन्नमोक्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारिमरुदेव्यादिवदिति ॥ मू. (७) तम्हा निउणं निहालेउं, गच्छंसम्मग्गपट्ठियं।
वसिज्ज तत्थ आमजं, गोयमा ! संजए मुणी॥ वृ.यस्मादालस्यवतामपिसद्गणे एतेगुणास्तस्मात् निपुणं आत्ममोक्षत्रकरंयथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषाऽवलोक्य ‘गच्छं' गणं ‘सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं वसेत्' गुर्वाज्ञापूर्वकं निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणेजन्ममर्यादीकृत्य आजन्म' यावजीवमित्यर्थः "हे गौतम!' 'संयतः' षड्जीवपालनतत्परः ‘मुनि' गुर्वभिप्रायागमवेत्ता॥ __ अथ सद्गणः सदाचार्येणैव भवत्यतः सदाचार्यलक्षणमाह
मेढी आलंबणं खंभं, दिट्ठी जाणंसुउत्तिमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org