SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ मू० १ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ३० गच्छाचार - प्रकिर्णकसूत्रम् सटीकं (सप्तमं प्रकिर्णकम्) (मूलम् + वानर्षिगणि विरचिताटीका) श्रीपार्श्वजिनमानम्य, तीर्थाधीशं वरप्रदम् । गच्छाचारे गुरोर्ज्ञातां, वक्ष्ये व्याख्यां यथाऽऽगमम् ॥ वृ. शास्त्रस्यादौ प्रयोजनाभिधेयसम्बन्धमङ्गलान्यभिधातवयानि, तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधा, तत्र गच्छाचारप्रकीर्णककर्तुरनन्तरप्रयोजनं शिष्यावबोधः, परम्परं त्वपवर्गप्राप्ति, श्रोतुरप्यनन्तरं तदर्थावगमः, परम्परं तु मुक्तिपदप्राप्ति १ अभिधेयं तु गच्छाचारः, तस्यैव भणिष्यमाणत्वात् २ । सम्बन्धश्चोपायोपेयभावलक्षणः, तत्र वचनरूपापन्नमिदमेव गच्छाचारप्रकीर्णकमुपायः, उपेयं तु तदर्थपरिज्ञानम् ३, मङ्गलं द्विधा द्रव्यभावभेदात्, तत्र द्रव्यमङ्गलं पूर्णकलशादि, तद् अनैकान्तिकत्वात् मुक्त्वा भावमङ्गलं तु शास्त्रकर्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्द्धमानस्वामिनो नमस्कारद्वारेणाह मू. (१) 119 11 २०९ नमिऊण महावीरं तियसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुयसमुद्दाओ ॥ वृ. 'नत्वा' प्रणम्य, कं ? -महांश्चासौ वीरश्च महावीरस्तं महावीरं, किंविशिष्टम् ? - त्रिदशाः सुमनसस्तेषामिन्द्रैःईशैर्नमस्थितं नमस्कृतं 'महाभागं' विश्वविख्यातचतुस्त्रशन्महाऽतिशयविराजमानं अचिन्त्यशक्त्यन्वितं वा गच्छस्य-भावमुनिवृन्दस्याचारो - ज्ञानाचारादि गणमर्यादारूपो वा तं गच्छाचारं 'किञ्चित्' स्वल्पमुद्धरामो वयं श्रुतमेव - द्वादशाङ्गीलक्षणमेवसमुद्रः - सागरः श्रुतसागरस्तस्मात् श्रुतसमुद्रात् ॥ अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति मू. (२) अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्ठिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥ वृ. . अत्थे० ० ॥ अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति विद्यन्त इत्यर्थः 'एके' केचित्वैराग्यवन्तः ‘प्राणिनो’जीवाः हे गौतम! 'ये' जीवाः अज्ञानत्वेन पण्डितंमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्ग अथवा यत्रपञ्चाश्रवप्रवृत्ति स उन्मार्गस्तस्मिन् प्रतिष्ठिते-प्रकर्षेण 14 14 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy