________________
मू० १५५
१९३
श्रीयते इति गतिः, धर्म प्रतिष्ठा - संसारगर्त्तापतत्प्राणिवर्गस्याधारः, धर्मेण सुचरितेन - सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते - अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥ पू. (१५६)
पीइकरो वन्नकरो भासकरो जसकरो य अभयकरो । निव्वुइकरो य सययं परित्तबिइज्जओ धम्मो ॥
वृ. प्रीतिकरः - परमप्रीत्युत्पादकः वर्णकरः- एकदिगव्यापिकीर्त्तिकरः यद्वा वपुषि गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः - कान्तिकरः यद्वा भाषाकरः- वचन पटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशः करः - सर्वदिग्वयापिकीर्त्तिकरः, चशब्दाच्श्लाघा - शब्दकरः, तत्र श्लाघा -तत्स्थान एव साधुवादः शब्दः - अर्धदिग्व्यापीति, अभयकरो - निर्भयकरः निर्वृत्तिकरः - सर्वकर्मक्षयकरः 'पारित्तबि इज्ज०' त्ति परत्रद्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ मू. (१५७) अमरवरे अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लब्भइ सुकएण धम्मेण ॥
वृ. 'अमरवर०' अमरवरेषु - ० महामहर्धिकदेवेषु - अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराजमेघकुमार ध्नयानगारानन्दादीनामिव, तत्र भोगाःगन्धरसस्पर्शा, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः - शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो- देवदेव्यादिपरिवारभूताः, विज्ञानं - अनेकप्रकाररूपादिकरणं, ज्ञानं-मतिश्रुता - वधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण' त्ति केवलज्ञानं 'नाणं' ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥
मू. (१५८)
देविंदचक्क वट्टित्तणाइ रजाई इच्छया भोगा । एयाइं धम्मलाभा फलाई जं चावि निव्वाणं ।।
वृ. 'देविंद०' देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ अथात्रोक्तं निरुपयतिमू. (१५९) आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूवाइं ५ । पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ।।
वृ. 'आहारो०' अत्र-प्रकीर्णके जीवानां गर्भे आहारस्वरूपं १ गर्भे उच्छ्वासपरिमाणं २ शरीरे सन्धिस्वरूपं ३ शरीरे शिराप्रमाणं ४ वपुषि रोमकूपानि ५ पित्तं ६ रुधिरं ७ शुक्रं ८ चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणितं सख्यिा प्रमाणतो निरूपितं, कैः ? - गणितप्रधानैःतीर्थकर गणधरादिभिः ॥
पू. (१६०)
एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं ।
मुक्खपउमस्स ईहह सम्मत्तसहस्सपत्तस्स ।।
वृ. 'एयं सोउं ० ' एतत्पूर्वोक्तं श्रुत्वा - आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा, किंभूतं ? - महान् अर्थो - ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत- वाञ्छत,
14 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org