________________
१९२
परमार्थेन स्नेहतैल विवर्जितत्वात् ॥ मू. (१५१)
तन्दुलवैचारिक प्रकिर्णकसूत्रम् १५०
जेणंतरेणं निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेवि हिययं चित्तसहस्साउलं होई ॥
वृ. 'जेनंत०' सङ्कुचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्तयकारकेणान्तरेण विना विकसन्ति - प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे०' इति प्राकृतत्वात् तृतीयायें सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं पदाचित् स्ववल्लभे (न प्रवर्त्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं - स्वमानसं सहस्राकुलं स्वकान्तवयतिरिक्तपुरुषान्तरसहस्रषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत्, अतो मुनिवरैः - रत्नत्रयरक्षण परैर्मुक्तगृहारम्भभरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सदगुरुप्रसादात् कार्यमिति ।। अथोपदेशान्तरं दददाहमू. (१५२) जड्डाणं वड्डाणं निव्विन्नाणं च निव्विसेसाणं । संसारस्यराणं कहियंपि निरत्थयं होइ ॥
वृ. 'जड्डाणं व०' जड्डानां द्रव्यभावमूर्खाणां वड्डानां केषांचित् मठपारापतसध्शानां वृद्धानां निर्विज्ञानानां - विशिष्टज्ञानरहिताना निर्विशेषाणां अपवादोत्सर्गज्येष्ठेतरादिविशेषरहितानां संसार शूकराणां एवंविधानां गृहस्थानां साध्वाभासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईनृपारकादिवत् ॥
पू. (१५३)
किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण बहुएणं ।
जो मरणदेसकाले न होइ आलंबणं किंचि ।।
"
वृ. 'किं पुत्ते० ' पुत्रैः - अङ्गजैः किं ? न किञ्चित्, पितृभिर्वा किं ?, अर्थेनापि पिण्डितेन मीलितेन बहुकेन - प्रभूतेन किं ? नन्दमम्मणादीनामिव योऽङ्गजादिकलापः मरणदेशकालेमरणप्रस्तावे न भवत्यालम्बनं - आधाररूपं किञ्चिदिति ॥
मू. (१५४)
पुत्ता चयंति मित्ता चयंति भज्जावि णं मयं चयइ । तं मरणदेसकाले न चयइ सुविअजिओ धम्मो ॥
वृ. 'पुत्ता च०' मातापितरौ पुत्रास्त्यजन्ति 'भित्त' मित्राणि त्यजन्ति, सहजमित्रपर्वमित्रवत्, भार्याऽपीमं प्रत्यक्षं जीवन्तमित्यर्थ मृतं वा स्वकान्तं त्जयति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आर्षत्वादकारविश्लेषेऽमयमिति अमृतं - जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽन्यत्पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते वनमालावत्, यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त' मिति तस्मिन् प्रस्तावे मरण देशकाले च न त्यजति 'सु' इति जिनाज्ञापूर्वकद्दढभावेन 'वी'ति विशेषेण निरन्तरकरणेनार्जितो धर्म-श्रुतचारित्ररूप इति ॥
अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाहमू. (१५५)
धम्मो ताणं धम्मो सरणं धम्मो गई पइट्ठा य । धम्मेण सुचरिएण य गम्मइ अजरामरं ठाणं ।।
वृ. 'धम्मो त्ता० ' धर्म - सम्यगज्ञानदर्शनचरणात्मकः त्राणं - अनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धेतुत्वात् धर्म शरणं- रागाद्यरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते - दुःस्थितैः सुस्थितार्थमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org