________________
१९४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १६० किंभूतं श्रुत्वा, किंभूतं ?-महान् अर्थो--ज्ञानवैराग्यादिक यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत्-वाञ्छत, किंभूतं ? -'सम्मत्त'त्ति अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं, अत्र कर्मणि षष्ठी। मू. (१६१) एयं सगडसरीरंजाइजरामरणवेयणाबहुलं ।
तह घत्तह काउंजे जह मुच्चह सब्दुक्खाणं॥ वृ. एयंस०' एतच्छरीरशकटंजातिजरामरणवेदनाबहुलं तहघत्तहतितथायतध्वं तथा यत्नं कुरुतेत्यर्थः, यद्वा तथा खेटयत काउं' कृत्वा-विधायतपःसंयमादिकमितिशेषः, 'जे'इति पादपूरणे, यथा मुञ्चत, केभ्यः ?-सर्वदुःखेभ्यः, बलसारराजर्षिवाददिति ॥
|२८| पंचमं प्रकीर्णकं तन्दुलवैचारिकं समाप्तम् |
इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्यशिलीमुखसेवितक्रमणबिसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुणसौभाग्यगणिप्राप्तन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरि समर्थिता।
अत्र मया मूर्खशिरो- मणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रके परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति भद्रम्॥
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता तन्दुलवैचारिकस्य विजयविमल विरचिता टीका (अवचूरिः) परिसमाप्ता ।
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org