________________
१९०
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १४४ वृ. 'दोससय०' दोषशतगर्गरिकाणां दोषाः-परस्परकलहमत्सरगालिप्रदानमर्मोदघाटनकलङ्कप्रदानाजल्प्यजल्पनशापप्रदानस्वपरप्राणघातचिन्तनादयस्तेषां शतनि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस०' यशसः शतानि यशःशतानि न यशःशतान्ययशःशतानि तेषु विसर्पत्-विस्तारंगच्छत् हृदयं-मानसंयासांताअयशःशतविसर्पदहृदयास्तासां तथा 'कइयव'त्ति कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्तादीनि ‘पन्नत्तीति प्रज्ञाप्यन्ते-प्ररूप्यन्तेयाभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानांदम्भानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि कमलश्रेष्ठिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया-बुद्धेराप्ति-आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां २ कैतवप्रज्ञाप्तीनां वा, तथा 'ताणं ति तासां नारीणामज्ञातशीलानां-पण्डितैरप्यज्ञातस्वभावानां, यदुक्तं
'देवाण दानवाणं मंत मंतंति मंतनिउणाजे ।
इत्थीचरियंमि पुणो ताणवि मंता कहं नट्ठा । ॥२॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अंगरक्खेहिं।
निवरक्खियावि लोए रमणी दीसइ पभट्ठमज्जाया।
मच्छपयंजलमज्झे आगासे पंखियाण पयपंती।
महिलाण हिययमग्गो तिन्निविलोए नदीसंति ॥इति। यद्वा न ज्ञातं-नाङ्गीकृतं शीलं-ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां, यद्वा नञः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभि परिव्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासांमुनिवरैः प्रसङ्गैकान्तजल्पनैकत्रवासविश्वाससहचलनादिव्यापारोवर्जनीय इति। मू. (१४६). अन्नं रयंति अन्न रमति अन्नस्स दिति उल्लावं ।
अन्नो कडअंतरिओ अन्नो पडयंतरे ठविओ॥ वृ. 'अन्न रयंति०' द्वित्र्यादिपुरुषसम्भवेऽन्यं-स्वभावसमीपस्थं नरं रजति–अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः-, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत्, यद्वा स्वकुशीलत्वेकेनापिज्ञातेसति अन्नं रयंति'त्तिअन्यद्-विषभक्षणकाष्ठभक्षणादिकंरचयन्तिकपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं रयन्ति'त्ति अन्यदात्म व्यतिरिक्तं-तृणतन्तुदंडादिरदन्ति-उत्पाटनं कुर्वन्तीत्यर्थः, ‘रद विलेखने'इति विलेखनमुत्पाटनमिति, 'अन्नं रमंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः क्रीडन्तीत्यर्थः, पातालसुन्दरीवत्।
यद्वा ‘अन्नं रयंति'त्ति अन्यं-स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति रामाअधमकामाः रयि गतौ रबु गतौ च रयतेरम्बन्ति वा गच्छन्ति तथा धूतादिप्रकारेण क्रीडयन्ति वा 'अन्नस्स दितिउल्लावंतिअन्यस्य-उक्तव्यतिरिक्तस्य ददति-प्रयच्छन्ति उल्लावं'तिवचनं-बोलरूपं यद्वा अनेक नरपरिवृता अप्यन्यस्य नरस्य मार्गादि मच्छतः स्थितस्य वोत्-प्राबल्येनोल्लापंमन्मथोद्दीपनशब्दं ददतीति, ‘उल्लाय'ति पाठे तुकामिनरद्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उल्लातं-प्रबलपादप्रहारमित्यर्थः, तथा अन्यः कश्चिबलिवर्द्दरूपः कटान्तरितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org