SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ मू० १४३ १८९ 'ताडनानि' सतनपीडनानि - कराभ्यां पयोधरचम्पनानि हस्ताभ्यां कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चे 'ति तर्जनानि - अङ्गलिमस्तकतृणादिचालनानि तैर्मन्मथपीडामुत्पादयन्ति कामिनां, चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याद्यनेकप्रकारैर्नरान् बइल्लतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्यः सर्वथा सर्वदैव इति । तथा 'अवियाई' ति पूर्ववत् 'ताओ पासो व ववसिउं जे' इति 'जे' इतिप्राकृतत्वात् लिङ्गव्यत्ययः याः करण्डादयः स्त्रियः सन्ति जगति 'ताउ'त्ति ताः पुरुषान् पाशवत्-नागपाशवागुरादिबन्धनवत् 'ववसितुं०' धातूनामनेकार्थत्वात् बन्धितुं वर्त्तन्ते, इह परभवे नराणां बन्धनकारणत्वात्, 'पंकुव्व खुप्पि उं जे' त्ति 'ताउ'त्ति अग्रेऽप्यनुवर्त्तते, याः कुलटादयः सन्ति विश्वे ताः नरान् पङ्कवत्–अगाधार्द्रबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं०' क्षेप्तुं खूचयितुं वर्त्तन्ते, 'मच्चुव्व मरिउं जे' त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत् - कृतान्तवत् 'मर्त्तु' मारणार्थमित्यर्थ मारयितुं प्रवर्त्तन्ते, 'अगणिव्व डहिउं जे' त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धुं - ज्वालयितुं परिभ्रमन्ति, 'असिव्व छिज्जिउं जे' त्ति याः तरुणीपरिव्राजिकादयः सन्ति ताः कौटिल्यकरण्डाः साधूनप्यसिवत् खङ्गवत् छेत्तु-द्विधाकर्त्तुमुत्सहन्ते । अथ स्त्रीवर्णनं पद्येन वर्णयति यथामू. (१४४) असिमसिसारच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतबीभच्छभावाणं ॥ वृ. ' असिमसि० ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? –असिमषीसक्षीणां -करवालकज्जलतुल्यानां, अयमाशयः - यथा खङ्गः पण्डितेतरान नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभावेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बनादिहेतुत्वात्, पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः - यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते ति केनापि कुत्रापि धर्मवनाद गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति । पुन किंभूतानां ? - 'घोरनि०' घोरो - रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं-घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भावः - आन्तरमायावक्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलदबीभत्सभावास्तासां घोरभावानाम् । मू. (१४५) दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कइयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy