________________
१८८
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १४३ सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थं 'काई०' 'ससई सासिव्व ववहरंति'त्ति काश्चित्सशब्दं यथास्यात्तथा व्यवहरन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, कइव ‘सासिव्व' श्वासोच्छ्वासरोगिवत, पुरुषाणां स्नेहभावोत्पादनार्थः, 'काई०' काश्चित शत्रवत प्रवर्तयन्ति मारणार्थं मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थं रिपुवत्प्रवर्तयन्ति, रोरोइव का०' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्तिलगन्तीत्यर्थः, 'काई०' काश्चिदुपनतै-नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थः, 'काईकोउ०' काश्चित् कौतुकं-वचननयनादिभावंकृत्वाविधाय नमन्ति नराणां हास्याधुत्पादनार्थः, 'काइ'इति पदमग्रेऽपि योज्यम्।
'सुकडनिरिक्खिएहितिकाश्चित्सुकटाक्षनिरीक्षितैः-सुष्टुनेत्रविकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरेहिं तिसविलासानिच-विलाससहितानि मधुराणिच सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, 'उपहसिएहि'न्ति उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, ‘उवग्गहिएहिं'ति उपगृहितानि-पुरुषस्यालिङ्गनलिङ्गग्रहकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्यन्तीति, ‘उवसद्देहिं'ति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वातैः काश्चित् कामिनां कामरागं प्रकटयन्तीति, ‘गुरुगदरिसणेहित्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि च
___ आकृतयस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु' इति गुह्यप्रकाशनेन पुरुष पातयन्ति, यद्वा गु-इति गुरुंस्वजनकभादिकमपि विप्रता
कार्ये प्रवर्तयन्ति, 'रु'इति रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति २ ‘ग०' इति स्वपितुर्गृहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामकुर्वन्तीतिआर्षत्वात् 'रि' इतियद्वाअरिइति रतिकलहे-अरेमयासहमा कुरूप-हासमित्यादिरतिकलहकरणेन पुरुषं क्रीडयन्तीति आर्षत्वात् अरि इति ५ ‘स'इति अन्योक्तश्र - ङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति ६ 'ण'इति सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुषं सकामस्ववशंसगद्गदं स्वकार्यकर्तारमपराधमोक्तारं कुर्वन्तीतिगुरुगदरिसणेहिं
___ 'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानि-भूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगुह्यं पुरुषाणां ज्ञापयन्ति इति भूमि (लेखनवि) लेखनैरिति चकारौ अत्रसमुच्चयार्थी 'आरुहणनट्टणेहिंच'त्तिआरुहणानि-वंशाग्रादिचटनानि नर्तनानि-भूमौ नृत्यकरणानि तैः आरुहणनर्त्तनैः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, 'वालयउवगृहणेहिंचे ति बालकाः-मूर्खाः कामिन इत्यर्थः तेषामुपगृहनानि-प्रच्छन्नरक्षणादीनि तैलकोपगूहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा वालकाः केशकलापास्तेषामुपगूहनानि-रचनास्वच्छवस्त्रच्छादितादीनि तैर्मन्मथग्रस्तानधमादमान् स्ववशे कृत्वा बलिवर्दवत् वाहयन्तीति, चशब्दात् कपिवत्भ्रामयन्ति, अश्ववारयन्तिश्रेणिकभार्याधनश्रीराज्ञीवत्, स्वार्थाप्राप्ती प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि०' अङ्गुलिस्फोटनानि-कडिक्काकरणानि यद्वा अङ्गुलीनांपरस्परं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org