________________
मू० १२९
भणसु किमत्थं तुज्झं असुइंमि विवड्ढिओ रागो ।।
वृ. 'सिं' ति० कफे पित्ते - मायुषि मूत्रे - प्रनवणे गूथे - विष्ठायां 'वसाइ' त्ति वसायां स्नसायां 'दंतकुंडीसु' त्ति हड्डुभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुडयां, यद्वा 'दंतकुंडीसु' त्ति दंष्ट्रासु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः ? ॥
मू. (१३०)
घट्टिया ऊरु पट्टिया तट्ठिया कडीपिट्ठी । कडियट्ठिवैढियाइं अट्ठारस पिट्ठिअट्ठीणि ॥
वृ. 'जंघ०' 'जंघट्ठियासु ऊरू'त्ति जङ्घास्थिकयोरूरू प्रतिष्ठिती 'पइट्टिया तट्ठिया कडीपिट्ठी' त्ति अत्रायं पदसम्बन्धः - तयोरूर्वोस्थिता तत्स्थिता कटि - श्रोणिर्भवति, कट्यां प्रतिष्ठिता स्थिता 'पिठ्ठी' त्ति पृष्ठिर्भवति कटयस्थिवेष्टितान्यष्टादश पृष्ठयस्थीनि भवन्ति शरीरे इति ॥ भू. (१३१) दो अच्छिअट्टियाई सोलस गीवट्ठिया मुणेयव्वा । पिट्ठीपइट्ठियाओ बारस किल पंसुली हुंति ॥
वृ. 'दो अ०' द्वे अक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्धे पंशुल्यो भवन्ति ॥ यू. (१३२)
१७९
?
अट्टिकाढणे सिरहारुबंधणे मंसचम्मलेवंमि । विट्ठाकोट्ठागारे को वच्चघरोवमे रागो ।।
वृ. 'अट्ठिय०' अस्थिभिः 'अढिणे' कठिनेऽस्थिकठिने यद्वा- कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन्, शिरास्नसानां लध्विराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारेवर्चस्कगृहोपमे कलेवरे हे जीव ! तव को रागः ॥
मू. (१३३)
Jain Education International
जह नाम वच्चकूवो निच्चं भिणिभिणभणंतकायकली । किमिएहिं सुलुसुलायइ सोएहि य पूइयं वहइ ॥
वृ. 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वच्चकूवो' त्ति स्कूपो विष्ठाभृतकूपो भवति, किंभूतः ? - 'भिणिभिणी' त्ति शब्दं 'भणंत' त्ति भणतां-भृशं कथयतां काकानां कलि-वायसानां सङ्गामो यत्र स भिणिभिणिभणत्काककलि, कृमिकै:विष्ठानीलंगुभि सुलुसुलेत्येवंशब्दं करोतीतिसुलुसुलायते, नतोभिश्च - रेल्लकैः पूतिकं - परमदुर्गन्धं वहति-स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥ अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेणपू. (१३४)
उद्धियनयणं खगमुहविकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सीसघडीपागडीघोरं ॥
वृ. 'उद्धि०' उद्धृते - निष्कासिते काकादिभिर्नयने - लोचने यस्य यस्मिन् यस्माद्वा तदुदधृतनयनं, खगमुखैः - विहगतुण्डः 'विकट्टियं' ति विकर्त्तितं विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्त्तितं विप्रकीर्णी - अवकीर्णी विरलावित्यर्थः 'बाहुलयं' ति बाहू -प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकट्टियमालं' ति विकर्षितान्त्रमालं श्रृगालादिभिरिति 'सीसघडीपागडी' त्ति • प्रकटया शीर्षघटिकया-तुम्बलिकया घोरं रौद्रं ॥
पू. (१३५)
भिणिभिणिभणंतसद्दं विसप्पियं सुलुसुलिंतमंसोडं ।
For Private & Personal Use Only
www.jainelibrary.org