________________
१८०
तन्दुल वैचारिक-प्रकिर्णकसूत्रम् १३५ मिसिमिसिमिसंतकिमियं थिविथिविथिविअंतबीभच्छं। वृ. 'भिणि०' 'भिणिभिणिभणंत'त्ति धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छब्दं मक्षिकादिभिर्गणगणायमानमित्यर्थः-,विसर्पद-अङ्गादिशिथिलत्वेन विस्तार व्रजत् ‘सुलुसुलितमंसोडंति सुलुसुलायमानमांसपुटं 'मिसिमिसिमिसंतकिमियं तिमिसिमिसित्तिमिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिकं 'थिविथिविथविअंतबीभच्छंति छबछबायमानैरन्त्रैर्बीभत्सं-रौद्रमित्यर्थः ॥ मू. (१३६) पागडियपंसुलीं विगरालं सुक्कसंधिसंघायं।
पडियं निचेयणयं सरीरमेयारिसं जाण ॥ वृ. 'पग०' प्रकटिताः-प्रकटत्वंप्राप्ताः पांशुलिका यत्रतप्रकटितपांशुलिकं, विकरालंभयोत्पादकं, शुष्काश्चताः सन्धयश्चशुष्कसन्धयस्तासांसङ्घातः-समुदायोयत्रतछुष्कसन्धिसङ्घातं, विकरालं-भयोत्पादकं, शुष्काश्चताः सन्धयश्चशुष्कसन्धयस्तासांसवातः-समुदायोयत्र तच्छुष्क सन्धिसङ्घातं, पतितं गर्तादौ निश्चेतनक-चैतन्यविवर्जितं शरीरं-वपुः एतादृशं-पर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि, 'जाणे'इति पाठे तु निश्चेतनकं शरीरमहमीशंजानामीति ॥ मू. (१३७) वच्चाउ असुइतरं नवहिं सोएहिं परिगलंतेहिं ।
___ आमगमल्लगरूवे निव्वेयं सरीरमेयारिसं॥ वृ. 'वच्चाउ०' नवभिःस्रोतोभिः परिगलदिभवर्चस्कात्-गूथात् अशुचितरं-अपवित्रतमं 'आमगमल्लगरूवे'त्ति अपक्वशरावतुल्ये शरीरे निर्वेद-वैराग्यं व्रजत, विष्णुश्रीशरीरे विक्रमयशोराजस्येव॥ मू. (१३८) दो हत्था दो पाया सीसं उचंपियं कबंधमि।
कलमलकोट्ठागारं परिवहसि दुयादुयं वचं ॥ वृ. 'दो हत्था०' द्वे हस्ते द्वे पादे ‘सीसं उच्चंपियं'ति शीर्षमुत्-प्राबल्येन चम्पितं यत्र तच्छीर्षोच्चम्पितं तस्मिन्, यद्वा-शीर्षेणोत्-प्राबल्येन चम्पितं-आक्रमितं यत्तत् तथा तस्मिन प्राकृतत्वादनुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुर्य'ति शीघ्रं शीघ्रं किं वर्चस्व परिवहसि त्वमिति, अत्र यथायोगं विभक्तिपरिणामो ज्ञेय इति॥ मू. (१३९) तंच किर रूवतं वच्चंत रायमग्गमोइण्मं ।
परगंधेहिं सुगंधय मन्नतो अप्पणो गंधं ॥ वृ. 'तंच कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भवनायां रूपवत् व्रजत राजमार्ग 'ओइन्नति प्राप्तं, तत्रपरगन्धैः-पाटलचम्पकादिभि सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतो'त्ति जानन् हर्षयसीति॥ मू. (१४०) पाडलचंपयमल्लियअगरुयचन्दणतुरुक्कवामीसं।
गंधं समोयरंतं मन्नतो अप्पणो गंधं ॥ वृ.परगन्धंदर्शयति-'पाड०' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमिश्रवा-अथवा मिश्रं-संयोगोत्पन्नं यक्षकर्दमादिकं गंधं कस्तूर्यादिकं किंभूतं? –'समोयरंत'तिसर्वतो विस्तरत, एवंविधं परगन्धमात्मनो गन्धमिति ‘मनंतो'त्ति जानन् हर्षयसीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org