________________
तन्दुलवैचारिक प्रकिर्णकसूत्रम् १११
वृ. 'कित्तिय०' कियन्मात्रं - कियत्प्रमाणं 'वन्ने' त्ति वर्णयामि शरीरे - वपुषि, किंभूते अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गूथात्मके इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठासमूहे 'विरागमूले ति विरुद्धो रागः विरागः मनोजराग इत्यर्थ तस्य मूलं कारणं कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो- गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव (श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥
१७६
मू. (११२) किमिकुलसयसंकिण्मे असुइमचुक्खे असासयमसारे । सेयमलपुव्वडंमी निव्वेयं वच्चह सरीरे ॥
वृ. 'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अक्षे- अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारवर्जिते 'सेयमलपुव्वडंमि' त्ति दुर्गन्धस्वेदमलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः यूयं निर्वेदं - वैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति । मू. (११३) दंतमलकन्नगूहगसिंघाणमले य लालमलबहुले ।
एयारिसे बीभच्छे दुर्गुछणिज्जमि को रागो ॥
वृ. 'दंतम० ' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थ लालामलबहुले एताध्शे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ॥ मू. (११४) को सडणपडणविकिरिणविद्धंसणचयममरणधम्मंमि । देहमि अहीलासो कुहियकडिणकट्ठभूयंमि ॥
वृ. ' को सड०' देहे - शरीरे कः अभिलाषः - वाञ्छा ?, किंभूते ? - शटनपतनविकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनंकुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्लादेः खङ्गच्छेदादिना विगकिरणं - विनश्वरत्वं विध्वंसनं - रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादादेर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथितकठिनकाष्ठभूते - विनष्टकर्कशदारुतुल्ये । मू. (११५) कागसुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहंमि मच्छभत्ते सुसाणभत्तंमि को रागो ॥
वृ. 'कागसु०' देहे को रागः ?, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये खाये कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते सू. (११६) असुई अमिज्झपुत्रं कुणिमकलेवरकुडिं परिसवंति ।
आगंतुयसंठवियं नवच्छिड्डुमसासयं जाणे ॥
वृ. 'असुर' अशुचि - सदाऽ विशुद्धममेध्यपूर्णं विष्ठाभूतं कुणिमकलेवरकुडिंमांसशरीरहड्डयोर्गृहं 'परिसवंति 'त्ति परिस्रवत् सर्वतो गलत्, आगन्तुकसंस्थापितं -मातापित्रोः शोणितपुद्गलैर्निष्पादितं नवच्छिद्रं-नवरन्ध्रोपेतमशाशवतं - अस्थिरं एवंविधं वपुस्त्वं जानीहीति पू. (११७) पिच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सविआरं तरलच्छिं जुव्वणित्थीए ।
वृ. 'पिच्छसि' 'जुव्वणित्थीए ' त्ति यौवनस्त्रियाः - तरुण्याः मुखं - तुण्डं त्वं पश्यसि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International