SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मू०१०५ १७५ ईशं पूर्ववर्णितं वक्ष्यमाणंवा सर्वमनुजानां समस्तमनुष्याणां देह:-शरीरंएषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्वतः स्वभावः ॥अथ विशेषतः शरीरादेरशुभत्वं दर्शयतिमू. (१०६) सुक्कमि सोणियमि य संभूओ जननिकुच्छिमझमि। तंचेव अमिज्झरसं नवमासे घुटियं संतो॥ वृ. 'सुकंमि'इत्यादि यावदस्थिमलोतावत्पद्यं, 'सुकं०' जननीकुक्षिमध्ये मातृजठरान्तरे शुक्र-वीर्ये शोणिते-लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः-उत्पन्नस्तदेवामेध्यरसं-विष्ठारसं 'धुंटियंति पिबन् सन् नव मासान् यावत् स्थित इति॥ मू. (१०७) जोणीमुहनिप्फिडिओ थणगच्छीरेण वद्धिओ जाओ। पगईअमिज्झमइओ कह देहो धोइउं सक्को॥ वृ. 'जोणि०' योनिमुखनिस्फिटितः स्मरमन्दिरकुण्डनिर्गतः 'थणगं'ति स्तनकक्षीरेण वर्धितः पयोधरदुग्घेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउंति धौतुं-क्षालयितुं शक्यः॥ मू. (१०८) हा असुइसमुप्पन्ना य निग्गया य जेण चेव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असु इदारंमि॥ वृ. 'हाअ०' हा इति खेदे अशुचिसमुत्पन्ना-अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्वा जीवाः मोहप्रसक्ताः-विषयरक्ताः-रमन्ति-क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्रप्रसूतकुमारवदिति॥ एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिमू. (१०९) किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वनिजइ असुइबिलं जघणंति सकजमूढेहिं॥ वृ. 'किह ता०' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः ‘अपरितंते०' अपरितान्तैः- अश्रान्तैः-परिश्रममगणयद्भिः सवकार्यमूढैः-सवस्वार्थमौढ्यगतैः कविसहनैः 'जघनं ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वर्ण्यते-वचनविस्तरेण विस्तार्यते, किंभूतं जघनं ?-'अशुचिबिलं' परमापवित्रं विवरम्, उक्तंच-“चर्मखण्डं सदाभिन्नं, अपानोदगारवासितम् तत्र मूढाः क्षयं यान्ति, प्राणैरपिधनैरपि।।" तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैर्धम्मिल्लादयः इति ॥ मू. (११०) रागेण न जाणंति वराया कलमलस्स निद्धमणं। ___ ताणं परिणंदंता फुल्लं नीलुप्पलवणं व ॥ वृ. 'रागे०' हे शिष्य! रागेण-तीव्रकामरागेण नजानन्ति हृदयेचशब्दादन्येषां न कथयन्ति वराकाः-तपस्विनः कलमलस्य-अपवित्रमलस्य निर्धमनं खालूइति 'ताणं'ति ‘णं' वाक्यालङ्कारे तत्-जघनं परिणंदंति'त्ति परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थ नीलोत्पलवनं-इन्दीवरकाननम् ॥ मू. (१११) कित्तियमित्तं वन्ने अमिज्झमइयंमि वच्चसंघाए। रागो हुन कायब्वो विरागमूले सरीरंमि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy