________________
१७४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १०५ . मेदश्च-अस्थिकृत् चतुर्थो धातुरित्यर्थः मज्जा च-शुक्रकरः षष्ठो धातुरित्यर्थः मासं च-पललं तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयोधातुरित्यर्थःवालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोषः नासिकासि- छानश्च-घ्राणमलविशेषः धिडलं च-अन्यदपि शरीरोदभवं निन्धमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं आक्रान्तमित्यर्थः, गलन्नयनं कर्णोष्ठगण्डतालुकंअवालुयाइति लोकोक्तयाअवालुखिल्लश्च खील इति जनोक्ति ताभ्यां चिक्कणं-पिच्छलमित्यथः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन ‘मइल'त् मलिनं-मलीमसमित्यर्थः।
बीभत्सं-भयङ्करं दर्शनं-आकृतिरवलोकनं वा रोदिना कृशावस्थायां यस्य वपुषस्तद् बीभत्सदर्शनं, अंसलग'त्ति अंसयोः-स्कन्धयोः ‘बाहुलग'त्तिबाह्वोः-भुजयोः अङ्गुलीनां-करशाखानां अंगुट्ठग'त्ति अङ्गुष्ठयोरङ्गुलयोः नखानां महाराजानां (करजानां) ये सन्धयस्तेषां सङ्घातेनसमूहेन सन्धितमिदं वपुः ‘बहु०' बहुरसिकागारं 'नालखं०' नालेनस्कन्धशिराभिः-अंसधमनीभि 'अनेगण्हारु'त्ति अनेकस्नायुभि-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानैश्च 'नद्धंति नियन्त्रितं प्रकटं-सर्वजनदृश्यमानमुदरकपालं-जठरकडहल्लकंयत्रतत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेवनिष्कुटं-कोटरंजीर्णशुष्कवृक्षवद् यत्रतत्कक्षनिष्कुटंकक्षायांगच्छन्तीति कक्षागाःअधिकारात्तदगतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः-तदगतकेशलतास्ताभि कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वायस्यतगुरन्तं-दुष्पूरं, अस्थिधमन्योः सन्तानेन-परम्परया संतयंति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं ।
सर्वतः-सर्वप्रकारैः समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् ‘सयंति स्वयमेवाशुचि-अपवित्रं 'सभावउत्ति स्वभावेन परमदुष्टगन्धीति ‘कालिज्जयअंतपित्तजरहिययफोप्फसफेफसपिलिह'त्ति प्लीहा-गुल्म 'उदर'त्ति जलोदरं गुह्यकुणिमं-मासंनव छिद्राणि यत्र तत् तथा 'थिविथिवंत'त्ति द्रिगद्रिगायमानं 'हियय'त्ति हृदयं यत्र तत् परमयावत् हृदयं नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिहाशिश्नापानलक्षणानि 'दुरहि'त्ति दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सर्वोषधायतनं, रोगादावस्मिन् सर्वोषधप्रक्षेपात्, सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो०' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्यअपवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि । ___ “एवं चि०' एवं-पूर्वोक्तप्रकारेणचिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं अधुवंअनिययं असासयं'चेति पदत्रयस्य व्याख्या पूर्ववत्, ‘सडण०' शटनपतनविध्वंसनधर्म, तत्र शटनं-कुष्ठादिनाऽङ्गुल्यादे- पतनं बाह्वादेः खगच्छेदादिना विध्वंसनं-सर्वथा क्षयः एतेधर्मास्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स चइयव्वं'त्ति पूर्ववत् 'निच्छ०' निश्चयतः सुष्टु भृशं त्वं 'जाण'त्ति जानीहि एतन्मनुष्यशरीरं 'आइनिहणं ति आदिनिधनं सादिसान्तमित्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org