________________
मू० ६५
४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि काख्यं ५ यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्य स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं - व्याप्तं सेवार्त्तं ६ । सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजानां सेवार्तं संहननं वर्त्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्गं गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवज्रे दशमं पूर्वं संहननचतुष्कं च गतमिति । तथा आसन् हे आयुष्मन् ! पूर्व मनुजानां षडविधानि 'संठाणे ' त्ति सन्तिष्ठन्ति प्राणिन एभिकारविशेषैरिति संस्थानानि तद्यथा- 'समचतुरंसे' त्ति समं नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच तच्चतुरन च - अन्यूनाधिकाश्चतस्रऽप्यनयो यस्य तत्समचतुरस्र, अस्नयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्कन्धदक्षिणजानुनोश्चान्तरमिति संस्थानं - आकारः समचतुरनसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना - नाभेरधस्तनभागेन यथोक्तप्रभाणलक्षणेन वर्त्तते इति सादि उत्सेधब - हुलमिति भावः, इदमुक्तं भवति
यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति ३ यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठयुदरादि तत् कुब्जं ४ यत् पुनरुरउदरपृष्ठयादिप्रमाणलणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं ५ यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं ६, सम्प्रति खलु - निश्चये हे आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्त्तते, अथोपदेशं ददातीत्याहपू. (६६) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अनुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥
वृ. ‘संघयण०' संहननं संस्थानं शरीरादेरुच्चत्वम् - उच्छ्रयमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमयं समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति । मू. (६७) कोहमयमायलोभा उत्सन्नं वड्डए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सव्वंति ॥
वृ. 'कोहमा० ' क्रोधमानमायालोभाश्च उत्सन्नं-प्रवाहेण वर्द्धन्ते - पूर्वमनुष्यापेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि - कूटतोलनाद्युपकरणानि कूटमानानि - कूटकुडवप्रस्थादिमानानि च वर्द्धन्ते तेन कूटतुलादिनाऽनुमाने - अनुसारेण 'सव्वंति क्रयाणकवाणिज्यादिकं कूटं वर्द्धते इति ॥ मू. (६८) विसमा अज्ज तुलाओ विसमाणि य जणवेसु माणाणि ।
विसमा रायकुलाई तेण उ विसमाई वासाई ।।
बृ. ‘विस०’ विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्षमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि - कुडवसेतिकादिप्रमाणानि विषमाणि - असमानि जातानि चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि - अनेकान्यायकारकाणि राजकुलानि वर्त्तन्ते,'
अथ
14 11
Jain Education International
For Private & Personal Use Only
१६१
www.jainelibrary.org