________________
१४८
तन्दुलवैचारिक प्रकिर्णकसूत्रम् ४२
निययं विगणिज्जंतं सोयमयं केरिसं तस्स ॥
वृ. 'एया०' एताशे शरीरे कलमलभृते-उदरस्थजलबटकदमादिपूर्णे अमेध्यसम्भूतेविष्ठाकीर्णोदरसम्भूते 'निययं विगणिअंत' मिति पदद्वये 'सप्तम्या द्वितीये' ति सप्तम्यर्थे द्वितीया, निजके- आत्मीये 'विगणिज्जंत' मिति आत्मपरेषां जुगुप्सायोग्ये शौचमतं- पवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति यद्वा शौचेन - वस्त्रचन्दनाभरणादिना मदो - गर्वो यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीद्दशं मम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गीकारकरणं यथा - हा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति ।
अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरूप्यन्तेमू. (४३) आउसो ! एवं जायस्स जंतुस्स कमेण दस दसा एवमाहिज्जंति तंजहा
वृ. 'आउसो ए०' हे आयुष्मन् ! एवम् उक्तप्रकारेण जातस्य - उत्पन्नस्य जन्तोः - जीवस्य क्रमेण - अनुक्रमेण दश दशा - दशावस्थाः, दशवर्षप्रमाणा प्रथमा दशा-अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं वक्ष्यमाणप्रकारेण 'आहिज्जंती' ति आख्यायन्ते - कथ्यन्ते, तद्यथा
मू. (४४) बाला १ किड्डा २ मंदा ३ बला य ४ पण्णा य ५ हायणि ६ पवंचा ७ । भारा ८ मुम्ही ९ सायणी य दसमा य १० कालजाणंति बालया ॥
वृ. 'बाला १ किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो - विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थों यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा - वाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, पाहयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति हापनी ६, प्रपञ्चयति-विस्तारयति खेलकासादि इति प्रपञ्चा ७, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा प्रागभारा ८, मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - अभिमुख्यं यस्यां सा मुनमुखी ९, स्वापयति-निद्रायतं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति । मू. (४५) जायमित्तस्स जंतुस्स जासा पढमिया दसा । न तत्थसुहं दुक्खं वा नहु जाणंति बालया ॥
वृ. अथ सूत्रेणैव दश दशा दर्शनन्नाह - 'जायमि०' श्लोकः, जातमात्रस्य जन्तोः - जीवस्य या सा प्रथमिका दशा - दशवर्षप्रमणावस्था 'तत्थ' त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः – जातिस्मरणादिज्ञानविकला इति । बीईयं च दसं पत्तो, नाणाकीलाहिं कीडइ ।
मू. (४६)
नय से कामभोगेसु, तिब्बा उप्पज्जई रई ॥
वृ. 'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभि क्रीडति - क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्त्तिनो जीवस्य कामौ च - शब्दरूपे भोगाश्च गन्धरसस्पर्शा कामभोगास्तेषु
तीव्रा - प्रबला रति- मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org