SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मू० ४७ मू. (४७) तइयं च दसं पत्तो, पंचकामगुणे नरो । समत्थो भुंजिउं भोए, जइ से अस्थि घरे धुवा ॥ वृ. 'तइयंच' तृतीयां दशां प्राप्तः पञ्चकामगुणे - शब्दरूपरसगन्धस्पर्शलक्षणे नरो - मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीतिसत्तारूपतया वर्त्तते गृहे-स्वावासे 'धुवे 'ति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति शेषः । पू. (४८) चउत्थी उबला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जइ भवे निरुवद्दवो ॥ १४९ वृ. 'चउ०' चतुर्थी बलानाम्नी दशा वर्तते यां बलानाम्नीं दशामाश्रितो नरः समर्थो भवति बलं स्ववीर्यं द्रष्टुं (दर्शयितुं ) फलिहमल्लवत्, यदि भवेत् निरुपद्रवो - रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति । भू. (४९) पंचमी उदसं पत्तो, आणुपुव्वीए जो नरो । समत्थोऽत्थं विचिंतेउं, कुडुंब चाभिगच्छइ ॥ वृ. 'पंचमी उ' पञ्चमीं दशां प्राप्तः आनुपूर्व्या-परिपाट्या यो नरः स समर्थो भवति अर्थं विचिन्तयितुं - द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति - कुटुंबचिन्तायां प्रवर्त्तते इत्यर्थः मू. (५०) छट्टीओ हायणी नामा, जं नरो दसमस्सिओ । विरजइ उ कामेसुं, इंदिएसु य हायइ ।! बृ. 'छडी उ' षष्ठी हापनीनाम्नी दशा वर्त्तते, यां हापनीं दशां नर आश्रितः 'विरज्जइ'त्ति प्रवाहेण विरक्तो भवति, केभ्यः ? - काम्यंत इति कामाः - कन्दर्पाभिलाषास्तेभ्यः इन्द्रियेषुश्रवणप्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते - हानिं गच्छतीत्यर्थः ।। मू. (५१) सत्तमी य पवंचा ओ, जं नरो दसमस्सिओ । निच्छुमइ चिक्कणं खेलं, खासई य खणे खणे ॥ वृ. 'सत्तमी० ' सप्तमी प्रपञ्चा दशा यां दशां आश्रितः 'निच्छुभइ' त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं- पिच्छिलं चेपकतुल्यमित्यर्थ 'खेलं' श्लेष्माणं च पुनः क्षणं २- वारं २ 'खाइ' त्ति - खासितं करोतीत्यर्थः । मू. (५२) संकुइयवलीचम्मो, संपत्तो अट्टमीदसं । नारीणं च अणिट्टो य, जराए परिणामिओ ॥ वृ. 'संकुइ०' अष्टमी दशां प्राप्तो जीवः सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितोव्याप्तः स्यात्, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति नवमी मुम्मुही नाम, जं नरो दसमस्सिओ । पू. (५३) जराघरे विणस्संते, जीवो वसइ अकामओ ।। वृ. नवमी मुन्मुखी नाम्नी वर्त्तते, यां मुन्मुखीं दशां नरः आश्रितः 'जराधरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको विषयादिवाञ्छारहितो वसति । मू. (५४) Jain Education International हीनभिन्नसरो दीनो, विवरीओ विचित्तओ । दुब्बलो दुक्खओ सुयई, संपत्तो दसमी दसं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy