________________
मू० ३५
निष्क्रामति, 'तिरियमागच्छइ' त्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमाभावादिति ।
यू. (३६)
१४७
कोई पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गब्भवासे असुइप्पभवे असुइयंमि ।।
वृ. 'कोइ पुण० ' कोऽपि पुनः पापकारी - ग्रामघातरामाजठरविदारणजिनमुनिमहाशातनाविधायी वातपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः ‘अच्छइ’त्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानमोऽवतिष्ठते गर्भवासे - गर्भगृहे, किम्भूते ? - अशुचिप्रभवे अशुचिके - अशुच्यात्मके इति ।
मू. (३७)
जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो । ते दुक्खेण संमूढो, जाई सरइ नऽ प्पणो ॥
वृ. ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह - 'जायमा० ' गाथा, जायमानस्य–गर्भान्निसरतः तत्र उत्पद्यमानस्य वा यहुखं भवति वा - अथवा पुनम्रियमाणस्य यहुखं भवति तेन दारुणदुःखेन संमूढो - महामोहं प्राप्तः जातिं - प्राक्तनभवं आत्मीयं- स्वकीयं मूढात्मा प्राणी न स्मरति - कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानीतीति । मू. (३८) वीसरसरं रसंतोजो सो जोणीमुहाओ निष्फिडइ ।
माऊए अप्पणोऽविय वेयणमउलं जणेमाणो ।।
वृ. 'वीसर' त्ति परमकरुणोत्पादकं 'सरं ' ति स्वरं - ध्वनिं 'रसंतो' त्ति भृशं कुर्वन् स गर्भस्थो जीवः योनिमुखात् निष्क्रामति मातुः आत्मनोऽपिच वेदनामतुलां जनयन्-उत्पादयन् । मू. (३९) गब्भधरयमि जीवो कुंभीपागंमि नरयसंकासे । वुत्थो अमिज्झमज्झे असुइप्पभवे असुइयंमि ।।
वृ. 'गब्भत्थ' गाथा, गर्भगृहे जीवः कुंभीपाके कोष्ठिकाकृतितप्तलोहभाजनसदृशे नरकसध्शे-नारकोत्पत्तिस्थानतुल्ये 'वुच्छो' त्ति उषितः - स्थितः, अमेध्यं - गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे - जम्बालाद्युद्भवे अशुचिके - अपवित्रस्वरूपे । मू. (४०) पित्तस्स य सिंभस्स य सुक्क स्स य सोणियस्स चिय मज्झे ।
मुत्तस्स पुरीसस्स य जायइ जह वच्चकिमिउव्व ।।
वृ. ‘पित्त०' पित्तस्य ‘सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य - विष्ठायाः मध्ये-मध्यभागे जायते—उत्पद्यते, कइव ? – 'वच्च किम्मिउव्व' त्ति वर्चस्वकृमिवत्- विष्ठानीलंगवत्, यथा कृमि - द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति ।
-
पू. (४१)
तं दानि सोयकरणं केरिसयं होइ तस्स जीवस्स ।
Jain Education International
सुक्क रुहिरागराओ जस्सुप्पत्ती सरीरस्स ॥
वृ. ‘तं दाणि०’ तत् ‘दाणि’ति इदानीं साम्प्रतं शौचकरणं - शरीरसंस्कारकरणं कीदृशं भवति तस्य—–गर्भनिर्गतस्य जीवस्य ?, यस्य भङ्गुरशरीरस्योत्पत्ति - प्रादुर्भावः शुक्ररुधिराकरात्वीर्यरुधिरखनेः वर्त्तत इति ।
पू. (४२)
एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए ।
For Private & Personal Use Only
www.jainelibrary.org