________________
१४६
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ३० मू. (३०) आहारोपरिणामो उस्सासो तहय चेव निस्सासो,
सव्वपएसेसु भवइ कवलहारो यसे नत्थि ।। (प्र.) मू. (३१) एवं बुदिमइगओ गब्भे संवसइ दुखिओ जीवो।
परमतमिसंधकारे अमिज्झभरिए पएसंमि ॥ वृ. “एवंवु०' एवमुक्तप्रकारेण 'बुदि मितिशरीरंअतिगतः-प्राप्तः सन्गर्भ-जननीकुक्षौ संवसति-संतिष्ठतेचारकगृहे चौरवत्, ‘दुक्खिओजीवो'त्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः याशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सहशेन दुःखेन दुःखितो भवति जीवः गर्भे, किंभूते गर्भे ?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्चासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन्, अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके इति।
मू. (३२) आउसो ! तओ नवमे मासे तीए वा पडुप्पन्ने वा अनागए वा चउण्हं माया अन्नयरं पयायइ, तंजहा इत्थिं वाइत्थिरवेणं १ पुरिसंवापुरिसरूवेणं २ नपुंसगंवानपुंसगरूवेणं ३ बिंबिंवा बिंबरूवेणं ४।
वृ. 'आउसो ! तओ' इत्यादि, हे आयुष्मन्! हे इन्द्रभूते! ततः-अष्टमासानन्तरं नवमे मासे अतीते वा अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा अप्राप्ते वा 'चउण्हं' चतुर्णा स्त्र्यादिरूपाणां वक्ष्यमाणानां माता-जननी अन्यतरत्-चतुर्णांमध्ये एकतरं पयायइ'त्ति प्रसूते 'तंजह'त्ति तत्पूर्वोक्तंयथास्त्रियं वा स्त्रीरूपेण-स्त्र्याकारेण प्रसूते १ पुरुषं वापुरुषरूपेणपुरुषाकारेण २ नपुंसकंवा नपुंसकरूपेण-नपुंसककाकारेण ३ बिम्बं वा बिम्बरूपेण-बिम्बाकारेण, बिम्बमिति गर्भप्रतिबिम्बं गर्भाकृतिराह्नवपरिणामो नतु गर्भ एव ४ ।
- एते कथं जायन्त? इत्याहमू. (३३) अप्पं सुक्कं बहुउउयं, इत्थी तत्थ जायइ १ ।
. अप्पं उयं बहुं सुक्कं, पुरिसो तत्थ जायइ २ ॥
वृ. 'अपं' अल्पं शुक्र ‘बहुउउय'त्ति बहुकं-प्रभूतं 'उय'ति ओजः-आर्तवं स्त्री तत्र गर्भाशये जायते-उत्पद्यते १, अल्पं-ओजः बहु शुक्रं पुरुषस्तत्र जायते २। मू. (३४) दुण्डंपि रत्तसुक्काणं, तुल्लभावे नपुंसओ ३।
इत्थिउयसमाओगे, बिंबं तत्थ जायइ ४॥ वृ. द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुंसको जायते ३, 'इत्थी'त्ति स्त्रियाः-नार्या 'ओय'त्ति ओजसः ‘समाओगे'त्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं स्त्र्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते ४ इति । मू. (३५)अहणं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ समागच्छइ
तिरियमगच्छइ विनिघायमावजइ। वृ. 'अह णमित्यादि, अथानन्तरं ‘णं' वाक्यालङ्कारे प्रसवकालसमये-जन्मकालावसरे शीर्षेण वा-मस्तकेन वा पादाभ्यां वा-चरणाभ्यां वा आगच्छति समागच्छइ'त्ति समम्-अविषममागच्छति ‘सम्मंआगच्छइत्ति पाठे सम्यक्-अनुपघातहेतुना आगच्छति-मातुरुदरात योन्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org