________________
मू० २५
१४५
गौतम ! एवमस्माभि प्रोच्यते - अस्ति एककः कश्चित् स्वर्गे उत्पद्यते 'अत्थि 'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति । गर्भाधिकारे पुनर्गौतमस्वामी श्रीमहावीरं प्रश्नयति
मू. (२६) जीवे णं भंते! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छिज्ज वा चिट्ठिजवा निसीइज्ज वा तुयट्टिज्ज वा आसइज्ज वा सइज्ज वा माउए सुयमाणीए सुयइ जागरमाणीए जागरइ सुहियाए सुहिओ भवइ दुहियाए दुक्खिओ भवइ ?, हंता गोयमा ! जीवे न गब्भगए समाणे उत्ताणए वा जाव दुक्खिओ भवइ ॥
वृ. 'जीवे णं भंते! ग०' जीवो हे भदन्त ! गर्भगतः सन् 'उत्ताणए वे 'ति उत्तानको वा सुप्तोन्मुखो वेत्यर्थ: 'पासिल्लिए व' त्ति पार्श्वशायी वा 'अंबखुज्जए व’त्ति आम्रफलवत् कुब्ज इति 'अच्छिज्ज’त्ति आसीनः सामान्यतः, एतदेव विशेषतः उच्यते- 'चिट्ठेज व 'त्ति ऊर्ध्वस्थानेन 'निसीज्जए वे 'ति निषदनस्थानेन 'तुयट्टेज व 'त्ति शयीत निद्रया इति वेति 'आसइज व 'त्ति आश्रयति गर्भमध्यप्रदेशं 'सइज्ज व 'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणीए 'त्ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयइ' त्ति स्वपिति निद्रां करोतीत्यर्थः ।
'जागरमाणीए 'त्ति जाग्रत्या - जागरणं कुर्वत्या कुर्वत्यां वा जागर्त्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामत्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीवे णं गब्भगए समाणे' इत्यदेः प्रत्युच्चारणं तु स्वानुमतत्वप्रदर्शनार्थः, वृद्धाः पुनराहुः - 'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभियुपगमवचनं, यदनुमतं तठप्रदर्शनार्थं 'जीवे णं गब्भगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वा यावद्दुखितो भवतीति ।
अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाहमू. (२७)
थिरजायंपिहु रक्खइ सम्मं साक्खई तओ जननी । संवाहई तुयट्टइ रक्खइ अप्पं च गब्धं च ॥
वृ. 'थिराजा ० ' स्थिरजातं स्थिरीभूतं ' रक्खइ' त्ति रक्षति - सामान्येन पालयति ततः सा जननी तं सम्यग् - यत्नादिकरणेन रक्षति 'संवाहइ' त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयट्टइ'त्ति त्वगवर्त्तयति - स्वापयति रक्षति- आहारादिना पालयति आत्मानं च गर्भं चेति ॥
मू. (२८)
अनुसुयइ सुयंतीए जागरमाणीए जागरइ गब्भो ।
सुहियाए होइ सुहियो दुहियाए दुक्खिओ होइ ।।
वृ. 'अणु०' अनुस्वपिति - अनुशेते 'सुयंतीए 'त्ति स्वपत्यां सत्या जाग्रत्यां जागर्ति गर्भउदरस्थजन्तु - जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति ।। उच्चारे पासवणे खेलं संघाणओवि से नत्थि ।
मू. (२९)
अट्ठीट्ठीमिंजनहकेसमंसुरोमेसु परिणामो ॥
वृ. 'उच्चारो०' उच्चारो - विष्ठा प्रश्रवणं - मूत्रं खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमिंजनखकेशश्मश्रुरोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामो 'त्ति परिणामयतीत्यर्थः ।
141 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org