SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मू० २४ १४३ जीवः 'णं' इतिवाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यतेयस्य स संज्ञी पञ्चे न्द्रियाणिश्रवण १ ध्राण- २ रसन३ चक्षु ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिरा हारशरीरेन्द्रियोच्छ्वासभाषामनोलक्षणाभिः षड्भिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवर्त्तीत्यनुक्त मपि ज्ञेयं । यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं - शत्रुसैन्यं आगतं प्राप्तं 'सोचे 'ति श्रुत्वा 'निसम्म 'त्ति निशम्य - मनसा अवधार्य 'पएसे निच्छुभइ' त्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहि क्षिपति - निष्काशयति निष्काश्य विष्कम्भबाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्घयेययोजनप्रमाणं जीवप्रदेशदण्डं निसृजति, वैक्रियसमुद्घातेन 'समोहणइ'त्ति समवहन्तिसमवहतो भवति तथाविधपुद्गलग्रहणार्थः, समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनीं 'सिन्न' न्ति सेनां कटकमित्यर्थ 'सन्नाहेइ' त्ति सज्जां करोतीत्यर्थः सज्जां कृत्वा परानीकेन सार्धं संग्रामं संग्रामयति-युद्धं करोतीत्यर्थः । 'से णं जीवे'त्ति णं इति वाक्यालङ्कारे सः - युद्धकर्त्ता जीवः 'अत्थकाम 'त्ति अर्थे - द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्धकामः एवमन्यान्यपि विशेषणानि, नवरं - राज्यं नृपत्वं २ भोगाःगन्धरसस्पर्शा ३ कामौ - शब्दरूपे ४ ' अत्थकंखिए ' त्ति काङ्क्ष गृद्धिरासक्तिरित्यर्थः अर्थे- द्रव्ये काङ्क्षा सञ्जता अस्येति अर्थकाङ्क्षितः १ एवमन्यानि राज्यकाङ्क्षितः २ भोगकाङ्क्षितः ३ कामकाङ्क्षितः ४ । ‘अत्यपिवासिए’त्ति पिपासेव पिपासा - प्राप्तेऽप्यर्थेऽ तृप्तिः अर्थे अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः १ एवमन्यानि राज्यपिपासितः २ भोगपिपासितः ३ कामपिपासितः ४ 'तच्चित्ते' त्ति तत्र - अर्थराज्यभोगकामे चित्तं - सामान्योपयोगरूपं यस्यासौ तच्चित्तः १ 'तम्मणे' त्ति तत्रैव - अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः २ 'तल्लेसे' त्ति तत्रैव - अर्थादौ लेश्या– आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः ३ 'तदज्झवसिए' त्ति इह अध्यवसायः - अध्यवसितं तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं - परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः ४ 'तत्तिव्वज्झवसाणे' त्तितस्मिन्नेव - अर्थादौ तीव्रं - आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं - प्रयत्नविशेषलक्षणं यस्य स तत्तीव्राध्यवसानः ५ 'तदट्ठोवउत्ते'त्ति तदर्थंअर्थादिनिमित्तं उपयुक्तः– अवहितः तदर्थोपयुक्तः ६ 'तदप्पियकरणे 'त्ति तस्मिन्नेव - अर्थादौ अर्पितानि-आहितानि करणानि - इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदर्पितकरणः ७ ‘तब्भावणाभाविए’त्ति असकृदनादौ संसारे तदभावनया - अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः ८ । 'एयंसि' त्ति एतस्मिन् 'णं' इति वाक्यालङ्कारे चेत्-यदि 'अन्तरंसि’'त्ति सङ्ग्रामकरणावसरे कालं - मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्याष्टि नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते - हे गौतम! जीवो गर्भगतः सन् नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनर्गौतमो वीरं प्रश्नयतीत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy