SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् २०. उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खङ्गस्य छेदनशक्तिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय२ विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २, तथा ज्ञानावर्णकर्मक्षयोपशमाज्जीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं १ यत्तु शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोग भावेन्द्रियमिति २ । १४० तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यामाङ्गुलेन सातिरेकं योजनलक्षं स्यात्, प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात्, नात्र विषये नियमः कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपार्द्धे मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्तौ मनुष्याः प्रमाणाङ्गुलभवैः सातिरेकैरेकविंशतियोजनलक्षैः व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति । जघन्यतस्त्वत्यासन्नरजोमलादेरग्रहणादङ्गुलसङ्ख्येयभागात् परतः स्थितं वस्तु चक्षुषो विषयः १ श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ २ भ्राणरसनस्पर्शनानानां तूत्कृष्टं नव योजनानि ३-४-५ जघन्यतस्तु चतुर्णामप्यङ्गुलासङ्घयेयभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव समस्तमूर्त्तामूर्त्तवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे आत्माङ्गुलेनैव ज्ञेयमिति, तथा 'अट्ठिअट्ठिमिंज०’अस्थ्यस्थिमिञ्जकेशश्मश्रुरोमनखतया चिनोतीति, तत्रास्थि-हडुं अस्थिमिंजा-अस्थिमध्यावयवः केशाः- शिरोजाः श्मश्रूणि - कूर्चकेशाः रोमाणि - कक्षादिकेशा इति, 'से' अथ अनेनार्थेन-अनेन कारणेन हे गौतम! हे इन्द्रभते ! एवं पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमित ॥ पुनर्गौतमो ज्ञातनन्दनं प्रश्नयति मू. (२१) जीवे मं भंते! गब्भगए समाणे पहू मुहेणं कावलियं आहारं आहारितए ?, नो इणट्टे समट्ठे, सेकेणट्टेणं भंते! एवं वुच्चइ ? - गोयमा ! जीवे णं गब्भगए समाणे नो पहू मुहेणं कावलियं आहारं आहारितए ? गोयमा ! जीवे णं गब्भगए समाणे सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ ऊससेइ सव्वओ नीससेइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं ऊससेइ अभि० नीससेइ आहच्च आहारेइ आहञ्च परिणामेइ आहच्च ऊससेइ आ० नीससइ, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ, से एएणं अड्डेणं गोयमा ! एवं बुच्चइ-जीवे णं गब्भगए समाणे नो पहू मुहेणं कावलियं आहरं आहरित्तए । वृ. 'जीवे गं०' हे भदन्त ! हे भवान्त! हे दयैकरसकृतवागवृष्ट्याद्रीकृतभव्यहृदयवसुंधर जीवो गर्भगतः सन् प्रभुः - समर्थ मुखेन वक्त्रेण कवलैर्भवं कावलिकं आहारं - अशनादिकं 'आहारित्तए 'त्ति आहर्त्तु अदनं कर्तुमिति ?, आह जगदीश्वरः - हे गौतम! नायमर्थः समर्थः, श्रीगौतमः प्राह - 'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वैकवत्सलो वीरः प्राह-- हे गौतम! जीवो गर्भगतः सन् 'सव्वउ' त्ति सर्वात्मना - सर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy