________________
मू० १९
करोतीत्यर्थः ६ ।
· सप्तमे मासे सप्त निराशतानि ७०० पञ्च पेशीशतानि ५०० नव धमन्यो- नव नाड्यः ९ नवनवतिं रोमकूपशतसहस्राणि निर्वर्त्तयति, रोम्णां - तनुरुहाणां कूपा इव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः शिरोजाः श्मश्रूणि कूर्चकेशाः ९९०००००, केशश्मश्रुभिः सह 'अद्धट्ठाउ'त्ति सार्धा तिम्रो रोमकूपकोटीः निर्वर्तयतीति ३५००००००, अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे' त्ति निष्पन्नप्रायो जीवो भवतीति ।
अत्राधिकारे इन्द्रभूति जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथामू. (२०) जीवस्स णं भंते! गब्भगयस्स समाणस्स अत्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वावंतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा ?, नो इणडे समट्टे, से केणट्टेणं भंते! एवं बुच्चइ जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा ?
गोयमा ! जीवे णं गब्भगए समाणे जं आहारं आहारेइ तं चिणाइ सोइंदियत्ताए १ चक्खुरिदियत्ताए २ घाणिंदियत्ताए ३ जिब्भिदियत्ताए ४ फासिंदियत्ताए ५ अट्ठिअट्ठिमिंजकेसमंसुरोमनहत्ताए, से एएणं अट्ठेणं गोयमा ! एवं बुच्चइ जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा ।
१३९
वृ. 'जीवस्स णं भंते!' इत्यादि, हे भदन्त ! जीवस्य - जन्तोः 'णं' वाक्यालङ्कारे गर्भगतस्यगर्भत्वं प्राप्तस्य 'समास' त्ति सतः अस्ति-विद्यते वर्त्तत इत्यर्थ उच्चारो - विष्ठा 'इ' इति उपप्रदर्शने अलङ्कारे पूरणे वा वेति विकल्पार्थे 'प्रश्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'सिंघाणे' ति नासिकाश्लेष्म 'वंतं' वमनं 'पित्तं' मायुः शुक्रं - वीर्यं शोणितं रुधिरं 'सुक्के इ वा सोणिए इ वा' इति पदद्वयं भगवत्यादिसूत्रे न दृश्यते आगमज्ञैर्विचार्यमिति, 'नो इणट्टे समट्ठे' नो-नैव 'इणट्टे' त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थोभावः समर्थो बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्, गौतमस्वामी प्राह
'सेकेणद्वेणं' ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोच्यते - जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ?, भगवान् प्राह - हे गौतम! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया १ चक्षुरिन्द्रियतया २ घ्राणेन्द्रियतया ३ जिह्वेन्द्रियतया ४ स्पर्शनेन्द्रियतया ५ चिनोति पुष्टिभावं नयतीत्यर्थः ।
"
इन्द्रियाणि द्वैधानि - पुद्गलरूपाणि द्रव्येन्द्रियाणि १ लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि २, पुनर्निर्वृत्युपकरणलक्षणभेदात् द्वैधानि द्रव्येन्द्रियाणि तत्र निर्वृत्तिर्द्विधा - अन्तो 9 बहिश्च २, तत्र अन्तः - श्रोत्रेन्दियस्य अन्तः - मध्ये नेत्रगोचरातीता केवलिद्दष्टा कदम्बकुसुमाकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षुरिन्द्रियास्यान्तः मध्ये कवलिगम्या धान्यमसूराकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रूपग्रहणोपकारे वर्त्तते ३ रसनेन्द्रियस्य अन्तः- मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या गन्धग्रहणोपकारे वर्त्तते ४ स्पर्शनेन्द्रियस्य अन्तः–मध्ये केवलिष्टा देहाकारा काचिन्निर्वृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्त्तते ५-१ ।
बहिर्निर्वृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या २,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International