________________
१३८
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १६ ॥२॥ मेहनं खरता दाय, शौण्डीर्यं श्मश्रु धृष्टता ।
स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ ॥३॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् ।
नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ इति ।। अथ तिरश्चांगर्भभवस्थितिमाह-'तिरिए त्तितिरश्चां गर्भस्थितिरुत्कृष्टतः अष्टौ वर्षाणि, ततः परं विपत्ति प्रसवो वेति, जघन्यतः अन्तर्मुहूर्तमाना भवस्थितिरिति ।
अथ जीवो गर्भे उत्पद्यमानः किमाहारमाहारयति ततश्च किंस्वरूपो भवतीत्याहमू. (१७) इमोखलुजीवोअम्मापिउसंयोगेमाउउयंपिउसुक्वंतंतदुभयसंसर्ल्ड कलुसंकिब्बिसं तप्पढमयाए आहारं आहारित्ता गब्भत्ताए वक्कमइ ।
वृ. 'इमोखलु'त्ति यावत् ‘वक्कमइत्ति मुत्कलं, अयं जीवः खलु इति निश्चितं मातापित्रोः संयोगे 'माउउयं ति मातुरोजो-जनन्या आर्तवं शोणितमित्यर्थः पिउसुक्कंति' पितुः शुक्रं, इह यदिति शेषः 'तं' ति तदाहारं तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया ‘आहारित्त'त्ति तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमइ'त्ति व्युत्क्रामति उत्पद्यत इत्यर्थः, किंभूत-माहारं? - 'दुभयसंसिर्ल्ड'ति तयोः-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टंच-मिलितंच तदुभयसंसृष्टं, कलुषं-मलिनं किब्बिसं'तिकर्बुरमिति, ततःकेन क्रमेणशरीरंनिष्पाद्यते इत्याहमू. (१८) सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं ।
अब्बुया जायए पेसी, पेसीओ य घनं भवे ॥ वृ. 'सत्ताह'मित्यादि० यावद्भवेत्तिपा, सप्ताहोरात्राणियावत् शुक्रशोणितसमुदायमात्रं कललं भवति १ ततः सप्ताहोरात्राणि अर्बुदो भवति, ते एव शुक्रशोमिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येतेइति २ ततोऽपिचार्बुदात् पेसी-मांसखण्डरूपाभवति ३ततश्चानन्तरंसाधनं-समचतुरस्रं मांसखण्डं भवति ॥
मू. (१९) तो पढमे मासे करिसूणं पलं जायइ १ बीए मासे पेसी संजायए घणा २ तइए मासे माउए दोहलं जणइ ३ चउत्थे मासे माउए अंगाइंपीणेइ ४ पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ ५छट्टे मासे पित्तसोणियं उवचिणेइ ६ सत्तमे मासे सत्त सिरासयाइं७०० पंच पेसीसयाई ५०० नवधमणीओ नवनउइंच रोमकूवसयसहस्साइं निवत्तेइ ९९००००० विणा केसमंसुणा सह केसमंसुणा अछुट्टाओ रोमकूवकोडीओ निव्वत्तेइ ३५००००००, अट्ठमे मासे वित्तीकप्पो हवइ। ___ वृ. 'तो पढमे०' ततः-इह च तच्छुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे कर्षोनं पलं जायते, पञ्चगुञ्जाभिषिः षोडशभिमर्षिः कर्ष :चतुर्भिः कषैः पलमिति वचनात् त्रयः कर्षाः स्युरिति भावः १ द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरन मांसखण्डं जायत इत्यर्थः २ तृतीये मासे तु मातुर्दोहदं जनयतीत्यर्थः ३ चतुर्थे मा मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः ४ पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाःपञ्चाङ्कुरान् निर्वर्तयति निष्पादयतीत्यर्थः ५।
षष्ठे मासे पीयते जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितंतत् उपचिनोति-पुष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org