________________
मू०१५
१३७
पितृणां पितृसंख्या तस्याः शतपृथकत्वं भवति, अयमाशयः-उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति-कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्तमध्ये उत्कृष्टतो नवभिपुरुषशतैः सह सङ्गमो भवति तदा तदबीजे यः पुत्रो भवति सनवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वात्तिरश्चांच बीजं द्वादशमुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेक संयोगेऽपि शतसहस्रपृथक्तंव गर्भे उत्पद्यते चेत्येकस्मिन्नपि गर्भे लक्षपृथक्त्वं पुत्राणां स्यादिति ।
ननुदेवानां शुक्रपुद्गलाः किं सन्ति उतन? उच्यते, सन्त्येव, परंते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां-“अस्थि णं भंते ! तेसिं देवाणं सुक्कपुग्गला हंता अत्थि, ते णं भंते ! तेसिं अच्छराणं कीसत्ताए भुञ्जो २ परिणमंति?, गो० ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसणिंदियत्ताए फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गरूवजोव्वणगुणलावन्नत्ताए एयासिं भुजो २ परणमंति जावतत्य गंजे ते मनपरियारगा देवा तेसिं इच्छामने समुप्पज्जइइच्छामोणं अच्छराहिं सद्धिं मनपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अनुत्तराईउच्चावयाईमणाईपहारेमाणीओरचिट्ठति, तओणं ते देवा ताहिं अच्छराहिं सद्धिं मनपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति'त्ति ॥ अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह
"बारस०" गर्भस्य स्थितिः द्वादशवर्षप्रमाणाभवति, एतदुक्तंभवति-कोऽपिपापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तर्मुहूर्तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात् 'उदगगब्भे गंभंते ! कालओ केवचिरं होइ?, गो०! जहन्नेणंएक्समयं उक्कोसेणंछमासा' उदकगर्भः-कालान्तरेवृष्टिहेतुपुद्गलपरिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च मार्गशीर्षादिषुवैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशब्दात् मनुष्यतिरश्चां कायस्थिति चतुर्विंशतिवर्षप्रमाणा अवगन्तव्या, यथा कोऽपि स्त्रीकायेद्वादशवर्षाणिजीवित्वा तदन्तेचमृत्वातथाविधकर्मवशात् तत्रैवगर्भस्थिते कलेवरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिवर्षाण्युत्कर्षतो गर्भे जन्तुरवतिष्ठते, केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनःतत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावतस्थितिरिति॥
अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याहमू. (१६) दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य। .
उभयंतरं नपुंसे तिरिए अदेव वरिसाइं॥ वृ. 'दाहिणे ति पुरुषस्य दक्षिणकुक्षिः स्यात् दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः१, स्त्रिया वामकुक्षिः स्यात्,वामकुक्षौवसन्जीवःस्त्रीभवतीति भावः२,नपुंसकःउभयान्तरं स्यात्, कुक्षिमध्यभागेवसन्जीवो नपुंसकोजायते इति भावः ३, स्त्रीपुरुषनपुंसकलक्षणानि यथा॥१॥ “योनिर्मूदुत्वमस्थैर्य, मुग्धता चलता स्तनौ ।
पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org