________________
१३६
॥ ५॥
पद्मं सङ्कोचमायाति, दिनेऽतीते तथा यथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत् कृष्णं विगन्धं च वायुर्योनिमुखात्तुदेत् ॥
॥६॥
तथा चाविध्वस्ता योनिरविध्वस्तं बीजं १ अविध्वस्ता योनिर्विध्वस्तं बीजं २ विध्वस्ता योनिरविध्वस्तं बीजं ३ विध्वस्ता योनिर्विध्वस्तं बीजं ४ चतुर्षु भङ्गेषु आद्ये भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका नारी विध्वस्तयोनि, सप्तसप्ततिकः पुमानिति, “द्वादश मुहूर्तान् यावद् बीजं न विध्वस्तं स्यात्तत ऊर्ध्वं विध्वस्त" मिति द्वितीयाङ्गवृत्ताविति । तथा पुमान्– पुरुषः प्राय पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमबीजो भवेत्, गर्भाधानयोग्यबीजविवर्जित इत्यर्थः ॥
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १३
कियठप्रमाणायुषामेतन्मानं द्रष्टव्यमित्याह
मू. (१४)
वाससयाउयमेयं परेण जा होइ पुव्वकोडीओ । तस्सद्धे अमिलाया सव्वाउयवीसभागो य ॥
बृ. "वास”० वर्षशतायुषामिदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तं, परेण तर्हि का वार्त्तेत्याह- 'परे० ' वर्षशतात् परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटि सर्वायुषि स्यात् तस्य सर्वायुषोऽर्थं तदर्थं यावदम्लाना - गर्भधारणयोग्या स्त्रीणां योनि ः- द्रष्टव्या, ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयोनयोऽवस्थितयौवनत्वात् पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषो ऽन्त्यो विंशतिमो भागोऽबीज इति ।।
अथ कियन्तः पुनर्जीवाः एकस्याः स्त्रियाः गर्भे एकहेलयैवोत्पद्यन्ते, कियतां च पितॄणां एकः पुत्रो भवति इत्याहमू. (१५)
रतुक्कड़ा उ इत्थी लक्खपुहुत्तं च बारसमुहुत्ता । पिअसंख सयपुहुत्तं बारसवासा उ गब्भस्स ॥
वृ. " रत्तु०" अत्रान्यत्राप्यार्षत्वाद् विभक्तीनां वैचित्र्यं ज्ञातव्यमिति, मासान्ते त्रीणि दिनानि यावत् स्त्राणां यन्निरन्तरमजश्रं श्रवति तदत्र रक्तमुच्यते, तेन रक्तेन - रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्याश्च एकस्याः स्त्रियाः गर्भे जघन्यतः एको द्वौ वा त्रयो वा उत्कृष्टतस्तु 'लक्खपुहुत्तं' ति लक्षपृथक्त्वं नवलक्षगर्भजजीवा उत्पद्यन्ते इत्यर्थः, निष्पत्तं च प्रायः एको द्वौ वाऽऽगच्छतः, शेषास्त्वल्पजीवितत्वात्तत्रैव म्रियन्ते, एको द्वौ वेत्युक्तं व्यवहारापेक्षया निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति, चशब्दात् स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यतः एको द्वौ वा त्रयो वोत्कृष्टतो नवलक्षप्रमाणा उत्पद्यन्ते ।
तप्तायःशलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीवस्थानगमनशीलाः नारकदेवयुगलाग्निवायुवर्जितशेषजीवस्थानागमनस्वभावाः मुहूर्त्तपृथक्त्वकायस्थितिकाः असङ्घयेयाः संमूर्च्छिममनुष्या उत्पद्यन्ते चेति, तथा 'बारसमुहुत्त' त्ति पुरुषवीर्यस्य कालमानं द्वादश मुहूर्त्तानि, एतावत्कालमेव शुक्रशोणिते अविध्वस्तयोनिके भवत इति, 'पिअ'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org