________________
मू० ११
१३५
सुक्कपोग्गले अनुपवेसेञ्जा ३ परो व से सुक्कपोग्गले अनुपवेसेज्जा ४ सीओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अनुपवेसेज्जा ५ इञ्चेतेहिं ।
पंचजावधरेज्जा' दु० परधानवर्जितेत्यर्थः, दुर्भिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसनस्थानधितिष्ठेत्-योन्याकर्षणेन सगृह्णीयात् (१) तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः- मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति २१ स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च 'से 'त्तिं सा शुक्रपुद्गलान् योनावनुरवेशयेत् ३ परो वत्ति श्वश्रूप्रभृतिकः पुत्रार्थमेव 'से' तस्यायोनाविति ४ शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचरमन्त्याः पूर्वपतिता - उदकमध्यवर्त्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति ५ ॥
अथाध्वस्तध्वस्तयोनिकालमानं जीवसङ्ख्यापरिमाणं चाह
मू. (१२)
बारस चेव मुहुत्ता उवरिं विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहुत्तं च उक्कोसं ॥
वृ. “बारस०" सा पुरुषवीर्यसंयुक्ता योनिर्द्वादशैव मुहूर्त्तान् यावदध्वस्ता भवति, तथा 'उवरि' न्ति द्वादशमुहूर्त्तानन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः - ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्त मध्य एव गर्भभावः तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भे जीवानां - गर्भजजन्तूनां परिसङ्ख्या- मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥
मू. (१३)
पणपन्नाय परेणं जोणी पमिलायए महिलियाणं । पणसत्तरिइ परओ पाएण पुमं भवेऽ बीओ ॥
वृ. अथ कियदभ्यो वर्षेभ्यः पुनरूध्वं गर्भं स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाह- ‘“पणप०” महिलानां - स्त्रीणां प्रायः प्रवाहेण 'पणपन्नाय'त्ति पञ्चपञ्चाशदवर्षेभ्यः ‘परेणं'ति ऊर्ध्वं योनि प्रम्लायति - गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः- यथा “इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलाया जोणी - आर्त्तवं स्यात् गर्भं च गृह्णातीत्यर्थः ' पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गब्धं गिण्हइ, पणपन्नाए परओ नो अत्तवं नो गब्भं गिण्हइ" इति, तथा चोक्तं स्थानाङ्गटीकायाम्
119 11
॥२॥
॥३॥
॥ ४ ॥
"मासि मासि रजः स्त्रीणामजनं श्रवति त्र्यहम् । वत्सरात् द्वादशादूर्ध्वं, याति पञ्चाशतः क्षयम् ॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता ।
शुद्धे गर्भाशये १, मार्गे २, रक्ते ३ शुक्रे ४ ऽनिले ५ हृदि ६ ।। वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥ -शुद्ध-निर्दोषे गर्भाशयादिषट्के इत्यर्थः । तथा च “ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥
1
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org