________________
मू०१
१३३
नगरे व्यवस्थित एवाभगसेनस्य विपाकश्रुताङ्गवर्णितो व्यतिकरः सम्पन्न इति?, अत्रोच्यते, सर्वमिदमर्थानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्मतुद्वेधा-सोपक्रमंनिरुपक्रम च, तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानितान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषदात् साध्यव्याधिवत्, यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरश्चकर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छंति वक्ष्ये-भणिष्यामिप्रकीर्णकं श्रीवीरहस्तदीक्षितमुनि विरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं प्रत्यक्षं तन्दुलानां वर्षशतायुष्कुरुषप्रतिदिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥१॥ __ मङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाहमू. (२) सुणह गणिए दह दसा वाससयाउस्स जह विभजंति ।
संकलिए वोगसिए जंचाउंसेसयं होइ॥ वृ. 'सुणह०' अत्र पदानां सम्बन्धोऽयं-वर्षशतायुषो जन्तोर्यथा दश दशा-दशावस्थाः 'विभजन्तीति पृथग भवन्ति तथा यूयं शृणुत, क्व सति? -गणिते-एकद्वयादीति क्रियमाणे सति, तथा दशदशा सङ्कलिते-एकत्रमीलिते तथा व्युत्कर्षिते-निष्कासितेसति वाससयं परमाउं इत्तो पन्नासं हरइ निदाए' इत्यादिना यच्चायुःशेषकं भवति तदपि यूयं शृणुत॥ मू. (३) जत्तियमिते दिवसे जत्तियराईमुहुत्तमुस्सासे।
गब्अंमि वसइ जीवो आहारविहिं च वुच्छामि। वृ.यावनमात्रा दिवसान् यावद्रात्रीर्यावन्मुहूर्तान्यावदुच्छासान्जीवो गर्भे वसतितान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च वक्ष्ये-भणिष्यामीति॥
तत्र गर्भे अहोरात्राणां प्रमाणमाहमू. (४) दुन्नि अहोरत्तसए संपुण्णे सत्तसत्तरिंचेव।
गब्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ वृ. "दुन्नि" द्वे अहोरात्रशते (२००) सम्पूर्णे सप्तसप्तत्यधिके (७७) अन्यदर्धमहोरात्रच जीवो गर्भे वसति-तिष्ठति, एतावता नव मासान् सार्धप्तदिनांश्च जीवो गर्भे तिष्ठतीत्यर्थः।
एएतु अहोरत्ता नियमा जीवस्स गब्भवासंमि।
हीणाहिया उइत्तो उवघायवसेण जायंति ॥ वृ. “एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य गर्भवासे भवन्ति 'इत्तो'त्ति अस्मादुक्तादहोरात्रप्माणात् उपघातवशेन-वातपित्तादिदोषेण हीनाधिका अपि 'जायंति'त्ति धातूनामेनकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति। मू. (६) अट्ठ सहस्सा तिन्नि उ सया मुहुत्ताण पन्नवीसा य।
गब्भगओ वसइ जीओ नियमा हीणाहीया इत्तो॥ वृ.अथ गर्भ मुहूर्तानाप्रमाणमाह-"अट्ठसहस्सा" अष्टौसहस्राणित्रीणिशतानि पञ्चविंशत्यधिकानि मुहूर्तानि (८३२५) निश्चयेनजीवो गर्भे वसति, तानि च कथं भवन्ति?, उक्तलक्षणाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org