________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/२९ परिक्खेवेणं । से णं पल्ले एगाहिअबेहियतेहिअ उक्कोसेणं सत्तरत्तपरूढाणं संमढे सन्निचिए भरिए वालग्गकोडीणं । तेणं वालग्गा नो कुत्येजा नो परिविद्धंसेज्जा, नो अग्गी डहेजा, नो वाए हरेजा, नो पूइत्ताए हव्वमागच्छेज्जा, तओणं वाससए २ एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवइ से तं पलिओवमें।
वृ-तंव्यावहारिकपरमाणुंसिद्धाइवसिद्धाभगवन्तोऽर्हन्त उत्पन्नकेवलज्ञानानतुसिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदि-प्रथमंप्रमाणानां-वक्ष्यमाणोल्लक्ष्णश्लक्ष्णिकादीनामिति, एतेन श्रद्धालूनप्रतिआगमप्रमाणमभिहितं, तर्कानुसारिणःप्रतिप्रयोगः-अणुपरिमाणं कचिद्विश्रान्तंतरतमशब्दवाच्यत्वात्महत्परिमाणवत्, यत्रच विश्रान्तंसपरमाणुः, विपक्षेवस्तुनः स्थूलताऽपिनोपपद्यते, नच दव्यणुकादिनार्थान्तरमिति वाच्यं, सच सिध्धन्परमनिकृष्टो निरंश एव सिध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च, ततः सिद्धः परमाणुः, ननु सिध्यतुसः सूक्ष्मत्वाच्चनचक्षुरादिगम्यः, परंयदनन्तैः सूक्ष्मैपरमाणुभिरेको व्यावहारिकः परमाणुरारभ्यतेसचक्षुराद्यगोचरःशस्त्रच्छेदाधगोचरश्चेतितन्मन्दं, उच्यते, द्विविधो हिपुद्गलपरिमाण:सूक्ष्मो बादरश्च, तत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्वं शस्त्रच्छेदाद्यविषयत्वमित्यादयोधर्माभवन्ति, तेन नकाप्यनुपपत्ति, श्रूयतेचागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभःप्रदेशे माति स एव च द्वयोरपि मातीतिसंकोचविकाशकृतो भेदः, श्यतेचलोकेऽपिपिञ्जितरुतपुअलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह
अनन्तानां व्यावहारिकपरमाणूना समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया समुच्चये,एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यं, एते च श्लक्ष्णश्लक्षिणकादयोऽड्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निर्विशेषितमप्युक्तं'सहसण्हिआइवे'त्यादि, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूवरेण्वपेक्षया त्वष्टभागप्रमाणत्वात्श्लक्ष्णश्लक्षिणकेत्युच्यते,सवतः परतोवाऊर्ध्वाधस्तिर्यकचलनधर्मोजालप्रविष्टसूर्यप्रभाभिव्यङ्गयोरेणुरूवरेणुः त्रस्यति-पौरस्त्यादिवायुप्रेरितोगच्छतियोरेणुः सत्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरुत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टौ वालाग्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एकंयवमध्यं, अष्टौ यवमध्यानि एकमड्गुलं।
एतेनाड्गुलप्रमाणेनेति न तु न्यूनाधिकतया, षडङ्गुलानि पादः-पदस्य मध्यतलप्रदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्तचतुर्थांशः, द्वादशाङ्गुलानि वितस्ति सुखावबोधार्थमेवमुपन्यासः, लाघवार्ततु द्वौपादौ वितस्तिरितिपर्यवसितोऽर्थः,अन्यथापादसंज्ञाया नैरर्थक्यापत्ति, एवमग्रेऽपिचतुर्विंशतिरड्गुलानिरलिरिति सामयिकी परिभाषा नामकोशादौतु 'बद्धमुष्टिहस्तो रनिरिति, अष्टचत्वारिंशदड्गुलानि कुक्षि, षन्नवतिरड्गुलानि एकोऽक्ष इतिवा-शकटावयवविशेषः दण्ड इति वाधनुरिति वायुगमिति वा वोढस्कन्धकाष्ठमुसलमिति वानालिकाइतिवा-यष्टिविशेषः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org