SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - २ ९५ अत्र च धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यत्रोपयोगीनीति, एतेन धनुः प्रमाणेन द्वे धनुः सहस्र गव्यूतं, चत्वारि गव्यूतानि योजनं, एतेन योजनप्रमाणेन यः पल्योधान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां समवृत्तत्वात् प्रत्येकमुत्सेधाड्गुलनिष्पन्नयोजनं योजनमूर्ध्वोच्चत्वेन, तद्योजनं त्रिगुणं सविशेषं परिरयेण, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वात् । स पल्य 'एगाहि अबेहिअ'त्ति, षष्ठीबहुवचनलोपादेकाहिकदव्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना-सप्तदिवसोद्गतपर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाह्ना यावत्प्रमाणा वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्यः, द्वाभ्यां तु यास्ता व्याहिक्याः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत् इत्याह-'संमृष्ट' आकर्णपूरितः 'सन्निचितः ' प्रचयविशेषान्निबिडीकृतः वालानामग्रकोटयः-प्रकृष्टा विभागा इत्यर्थ, यद्वा वालाग्रकोटीनामिति वालेषु-विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽग्रामि श्रेष्ठानि वालाग्राणि कुरुनररोमाणि तेषां कोटयः अनेकाःकोटाकोटिप्रमुखाः सङ्ख्याः "स्त्रणां शतानि शतशो जनयन्ति पुत्रान्" इत्यादिवत्, तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भृत इति सुखावबोधाऽक्षरयोजना कार्या इति, वालाग्रसङ्ख्यानयनोपायस्त्वयं देवकुरूत्तरकुरुनरवालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्रमिति, यत्रैकं हरिवर्षरम्यकनरवालाग्रंतत्र कुरुनरवालाग्राण्यष्ट तिष्ठन्ति, यत्र चैकं हैमवत हैरण्यवतनवालाग्रंतत्र कुरुनरवालाग्राणि चतुःषष्टि, एवं विदेहनरवालाग्रे ५१२ लिक्षायां ४०९६ यूकायां ३२७६८ यवमध्ये २६२१४४ अड्गुलेऽङ्कतः २०९७१५२, अत्राड्गुलमुत्सेधाड्गुलं ग्राह्यं, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात् । अत्र सर्वत्र पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुणकारेणेयं सङ्ख्या समुत्तिष्ठति, अथायं राशिश्चतुर्विंशतिगुणो हस्तः चतुर्विंशत्यड्गुलमानत्वादस्य, सचैवं पञ्च कोटयस्त्रणि लक्षाणि एकत्रिंशत्सहस्रणि षट् शतान्यष्टचत्वारिंशदधिकानि, एष राशिश्चतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, विंशति कोट्यस्त्रयोदश लक्षाणि षट्विंशति सहस्राणि पञ्च शतानि द्विनवत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानत्वादस्य, चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिके कोटीनां एकत्रिंशल्लक्षाणि चतुरशीति सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुः क्रोशप्रमाणत्वादस्य, एकं लक्षमेकषष्टिसहस्राण्येकषष्टयधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षटत्रिंशत्सहस्राणि, शूचीगणनयैवेदं गणितं बोध्यं । अयं शचीराशिरनेनैव गुणितः प्रतरसमचतुरनयोजने, शूच्या शूचीगुणिताया एव प्रतरत्वात्, यथा पञ्चविंशति शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपञ्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिर्लक्षाणि चत्वारिंशत्सहस्राणि पञ्च शतान्येकोनसप्तत्यधिकानि कोटीनां तथा षष्टिर्लक्षणि, अयं राशिभूयः पूर्वराशिना गुणितो धनरूपो रोमराशि स्यात्, तथाहि एकचत्वारिंशत्कोटयोऽष्टसप्ततिर्लक्षाणि चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीति सहस्राण्येकं शतमष्टपञ्चाशदधिकं कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्तति सहस्राण्यष्टशतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा चतुश्चत्वारिंशल्लक्षाणि पञ्चविंशति सहस्राणि षट् शतानि कोटीनामिति, अयं च राशि समचतुर For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy