________________
वक्षस्कारः-१
उसहकूडप्पभाइंउसहकूडवण्णाभाई' इति, अत्र व्याख्या प्रश्नसूत्रंसुगम, उत्तरसूत्रेऋषभकूटपर्वते क्षुल्लासुक्षुल्लिकासुवापीषु पुष्करिणीषु, यावद्धिलपङ्किषुबहून्युत्पलानि पद्मानि यावत्सहस्रपत्राणि ऋषभकूटप्रभाणि-ऋषभकूटाकाराणिऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्येवआभा-प्रतिभासो येषांतानिऋषभकूटवर्णाभानिततस्तानितदाकारत्वात्तद्वर्णत्वात्तद्वर्णसाश्याच्च ऋषभकूटानि, तद्योगादेष पर्वतोऽपि ऋषभकूटः, उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह
'उसभे अइत्यादि, ऋषभश्चात्र देवो महर्द्धिकः, अत्र यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अन्नेसिं च बहूणं देवाण य देवीण य आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ, से एएणतुणं एवं वुच्चइ उसहकूडपव्वए २' इति पर्यन्तः सूत्रपाठो ज्ञेयः, अत्रव्याख्या प्राग्वत् । 'दाहिणेणं' इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नाम्नीमन्दरस्य पर्वतस्य दक्षिणतस्तथैव वाच्या यथा विजयदेवस्य प्रागुक्ता, अविशेषितं-विशेषरहितं, क्रियाविशेषणमतत्, अस्या विजयायाः राजधान्याश्च नामतोऽन्तरंन त्वस्मिन् वर्णके इतिभावः।
वक्षस्कारः-१ समाप्त इति सातिशयधर्मदेशनारससमुल्लासविस्यमानऐदंयुगीननरधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणपुरदत्तषाण्मासिकसर्वजनतुजाता भयदानशत्रूजयादिकरमोचनस्फुरन्मानस्फुरन्मानप्रदानप्रभृतिबहुमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरि श्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यां भरतक्षेत्रस्वरूपनिरूपको नाम प्रथमो वक्षस्कारः ।
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जम्बूद्वीप प्रज्ञप्ति उपागसूत्रे प्रथम वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता।
(वक्षस्कारः-२) मू (२२) जंबुद्दीवेणंभंते! देवी भारहे वासे कतिविहे काले पन्नत्ते?, गो० ! दुविहे काले प०, तंजहा-ओसप्पिणिकाले अउस्सप्पिणिकाले अ/ओसप्पिणिकाले णंभंते! कतिविहे प०?, गो०!, छब्बिहे प०, तं०-सुसमसुसमकाले १ सुसमाकाले २ सुसमदुस्समकाले ३ दुस्समसुसमाकाले ४ दुस्समाकाले ५ दुस्समदुस्समाकाले ६, उस्सप्पिणिकाले णं भंते ! कतिविहे पं०?, गो० ! छविहे प०, तं०-दुस्समदुस्समाकाले १ जाव सुसमसुसमाकाले ६।
एगमेगस्सणं भंते! मुहुत्तस्स केवइया उस्सासिद्धा विआहिआ?, गोअमा! असंखिज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलित्ति वुच्चइ संखिज्जाओ आवलिआओ ऊसासो संखिज्जाओ आवलिआओ नीसासो।
वृ-अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जानन्नप्यत्र साक्षादवसर्पतः शुभान् भावान् वीक्ष्य पारिशेष्यात् संभाव्यमानमनवस्थितकालं हदि निधाय पृच्छति-'जंबुद्दीवेणं भंते!' इत्यादि, जम्बूद्वीपे द्वीपे भरतवर्षे भगवन् ! कतिविधः कालः प्रज्ञप्तः ?, भगवानाह-गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-अवसर्पति हीयमानारकतयाऽवसर्पयति वा-क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी स चासौ कालश्च २, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org