________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२१ मूलमध्यान्तेषु क्र मादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायमेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं-वाचनाभेदस्तदगतपरिमाणान्तरमाहमूले द्वादशयोजनानिविष्कम्भेन मध्येऽष्ट योजनानि विष्कम्भेन उपरिचत्वारियोजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधं ।
अत्राह परः-एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ?, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादिपुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषांक्षायिकज्ञानवतामेकमेवमतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिज्योर्तिष्करण्डकवृत्ती-“इह स्कन्दिलाचार्यप्रतिपत्तौदुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघमेलापकोऽभवत्, तद्यथा-एकोवलभ्यामेकोमथुरायां, तत्र चसूत्रार्थसंघटनेपरस्परंवाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्यं वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिमि प्रवचनाशातनाभीरुभिपुष्यपुरुषैरितिनकाचिदनुपपत्ति, किञ्च-सैद्धान्तिकशिरोमणिपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं, तथा॥१॥ 'सव्वेवि उसहकूडा उविद्धा अट्ठजोयणे हुँति।
बारस अट्ठय चउरो मूले मज्झुवरि विच्छिन्न ।' 'मूले विच्छिन्नं' इत्यादि शेषवर्णकः प्राग्वत् ।अथास्य पद्मवरवेदिकाद्याह-'सेणं एगाए' इत्यादि, स ऋषभकूटाद्रिरेकया पद्मवरवेदिकया तथैवेति-यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थ; कियत्पर्यन्त इत्याह-यावद्भवनं-ऋषभाख्यदेवस्थानं, स चायं 'एगेण य वणसंडेण सव्वओ समंता संपरिक्खित्ते, उसहकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे प०, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्सबहुमज्झदेसभागेमहंएगेभवणेप०' इति, अत्र व्याख्या पूर्ववत, भवनमानं साक्षादेव सूत्रे दर्शयति-क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशं चत्वारिंशदधिकचतुर्दशधनुःशतरूपमूर्बोच्चत्वेन, यद्यपि भवनमायामापेक्षयाकिञ्चिन्यूनोच्छ्रायमानं भवतिप्रासादस्तुआयामद्विगुणोच्छ्राय इति श्रीज्ञाताधमकथाङ्गवृत्यादौ भवनप्रासादयोर्विशेषो दृश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभि क्षेत्रसमासवृत्तौ___"एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः, ते च प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुच्चत्वेने" त्यत्रोक्तभवनतुल्यप्रमाणतया ऋषभकूटेषुप्रासादानाममभिधानादिति, अर्थोनामान्वर्थऋषभकूटस्यतथैवेतियथाजीवाभिगमादौ यमकादीनांर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रंतु 'उप्पलाणी'त्यादिना सूचितंतदनुसारेणेदं सेकेणटेणंभंते! एवं वुच्चइ-उसहकूडपव्वए २?, गोअमा! उसहकूडपव्वए खुड्डासुखुड्डियासुवावीसुपुक्खरिणीसुजावबिलपंतीसुबहूई उप्पलाइंपउमाइंजाव सहस्सपत्ताई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org