SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ ८७ अर्थादुत्तरार्द्धभरतस्य चतुर्दश योजनसहस्रमि पञ्च शतान्यष्टाविंशत्यधिकानि एकादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तमिति शेषः, अत्र करणं यथाउत्तरार्द्धभरतस्य कलीकृत इषुः १००००, अस्य वर्ग १ शून्य ८, स च षडगुणः ६ शून्य ८, सोऽप्युत्तरार्द्धभरतजीवावर्गेण ७५६०००००००० इत्येवंरूपेण मिश्रितो जातः ७६२ शून्य ८, एष उत्तरार्द्धभरतस्य जीवावर्ग, अस्य मूलेय लब्धाः कलाः २७६०४३, शेषं कलांशाः २६२१५१,छेदराशि५५२०२६, कलानामेकोनविंशत्या भागेअवशेषांनामविवक्षितत्वान्नैकादशकलानां साधिकत्वसूचा एषाचशरादीनां करणविधिप्रसङ्गतोऽत्रदर्शितः, अतः परमुत्तरत्रक्षुद्रहिमवदादिसूत्रेषु सनदर्शयिष्यतेविस्तरभयात्, तजिज्ञासुनातुक्षेत्रविचारवृत्तितोज्ञेयइति।अथोत्तरार्द्धभरतस्वरूपं पृच्छति-'उत्तरभरहस्सन'मित्यादिव्यक्तं, अत्रैव मनुष्यस्वरूपंपृच्छति-'उत्तरड्ढभरहे' इत्यादि, इदमपिप्राग्वत्, यावदेके केचन सर्वदुःखानामन्तं कुर्वन्तीति। नन्वत्रत्यमनुष्याणामर्हदाद्यभावेन मुक्त्यड्गभूतधर्मशर्वणाधभावात् कथं मुक्त्यवाप्तिसूत्रमौचित्यमञ्चति इति चेत् ?, उच्यते, चक्र वर्तिकाले अप्रावृतगुहाद्वयावस्थानेन (स्वयंगमनात्) गच्छदागच्छद्दक्षिणार्द्धभरतवासिसाध्वादिभ्यो वाऽन्यदाऽपि विद्याधरश्रमणादिभ्यो वाजातिम्रमणादिना वा मुक्त्यगावाप्तेर्मुक्त्यवाप्तिसूत्रमुचितमेवेति । अथैतत्क्षेत्रवरतिऋषभकूटं कास्तीति पृच्छति मू (२१) कहिणंभंते! जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे नामंपव्वए पन्नत्ते?, गोअमा! गंगाकुंडस्स पञ्चत्थिमेणंसिंधुकुंडस्स पुरच्छिमेणंचुल्लहिमवंतस्सवासहरपव्वयस्स दाहिणिल्ले नितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसहकूडे नाम पव्वए पन्नत्ते, अट्ठ जोअणाई उड्ढं उच्चत्तेणं, दोजायणाइंउव्वेहेणं, मूले अट्ठजोअणाई विखंभेणंमज्झेछजोअणाइंविखंभेणं उवरिंचत्तारिजोअणाइविक्खंभेणं, मूले साइरेगाइंपणवीसंजोअणाइंपरिक्खेवेणंमज्झे साइरेगाई अट्ठारस जोअणाई परिक्खेवेणं उवरिं साइरेगांदुवालस जोअणाई परिक्खेवेणं। पाठान्तरं-मूले बारसजोअणाइंविखंभेणं मज्झे अट्ठजोअणाई विक्खंभेणंउपिंचत्तारि जोअणाई विक्कंभेणं मूले साइरेगाइं सत्तत्तीसं जोअणाई परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोअणाइंपरिक्खेवेणं उप्पिं साइरेगाइंबारसजोअणाइंपरिक्खेवेणं, मूले विच्छिन्ने मज्झे संक्खित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव पडिरूवे। से णं एगाए पउमवरवेइआए तहेव जाव भवणं कोसं आयामेणं अद्धकोसं विखंभेणं देसऊणं कोसंउड्ढं उच्चत्तेणं, अट्ठो तहेव, उप्पलाणि पउमाणि जाव सभे अएत्थ देवे महिड्ढीए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसेसियं।। वृ-'कहिं ण'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वी उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतःप्रज्ञप्तः?, भगवानाह-गौतम! गड्गाकुण्डस्य यत्र हिमवतो गड्गा निपततितद्गगाकुण्डं तस्य पश्चिमाया, यत्र तु सिन्धुर्निपतति तत् सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिणात्यनितम्बे, सामीपकसप्तम्या नितम्बासने इत्यर्थ, अत्रप्रदेशे जम्बूद्वीपे द्वीपेउत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टयोजनान्यूझेच्चत्वेन द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात्, अष्टानांचतुर्थांशेद्वयोरेवलाभात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy