________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/२२ क्षेत्रेषु भरतस्येव, उत्सर्पति-वर्द्धतेआरकापेक्षयावर्द्धयति (वा) क्रमेणायुरादीन् भावानित्युत्सर्पिणी सचासौ कालश्च २, चकारद्वयंद्वयोरपिसमानारकतासमानपरिमाणतादिज्ञापनार्थं, तदेवप्रश्नयति'अवसर्पिणीकालः कतिविधःप्रज्ञप्तः?, गौतम! षडविधः प्रज्ञप्तः, तद्यथा सुष्टु-शोभना-समाःवर्षाणि यस्यां सा सुषमा 'निर्दुसुवेः समसूते" रिति षत्वं सुषमा चासौ सुषमा च सुषमसुषमाद्वयोः समानार्थयोः प्रकृष्टार्थवाच्कत्वादत्यन्तसुषमा, एकान्तसुखरूपोऽस्या एवप्रथमारक इत्यर्थः, सचासौ कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमदुष्षमा, दुष्टाः समाअस्यामितिदुष्षमा, सुषमा चासौ दुष्षमा च सुषमदुष्षमा सुषमानुभावबहुलाऽल्पदुष्षमानुभावेत्यर्थः, चतुर्थों दुष्षमसुषमादुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुलाऽल्पसुषमानुभावेत्यर्थः, पञ्चमोदुष्षमा षष्ठोदुष्षमदुष्षमाकालःनिरुक्तंतुसुषमसुषमावत्, एवमुत्सर्पिमीसूत्रमपिभाव्यं, परं षडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्यां षष्ठः कालो दुष्षमदुष्षमाख्यः स एवात्र प्रथमोयावत् सुषमसुषमाकालः षष्ठइति।अथ द्विविधस्यापिकालस्यपरिमाणंजिज्ञासुस्तन्मूलभूतकालविशेषप्रश्नायोपक्रमते-“एगमेगे'इत्यादि, एकैकस्य मुहूर्तस्य भगवन्! कियत्य उच्छ्वासाद्धाउच्छ्वासप्रमितकालविशेषा व्याख्याताः, एकस्मिन् मुहूर्ते कियन्त उच्छ्वासा भवन्ति, उच्छ्वासशब्देनात्रोपलक्षणत्वादुङ्वासनिश्वासाः समुदिता गृह्यन्ते, अत्रोत्तरम्
असङ्ग्येयानांसमयप्रसिद्धपटशाटिकापाटनष्टान्तप्ज्ञापनीयस्वरूपाणांपरमनिकृष्टकालविशेषाणांसमयानांसमुदया-वृन्दानितेषांयाः समितयो मीलनानितासांसमागमः-संयोगएकीभवनं तेन यत्कालमानं भवतीति गम्यतेसा एका जघन्ययुक्तासङ्ख्यातकसमयप्रमाणा आवलिका इति संज्ञयाप्रोच्यते जिनैरिति शेषः, यद्यप्यसांव्यवहारिकत्वेनसमयावलिके उपेक्ष्य प्रश्नसूत्रे मुहूर्तोच्छासादिपृच्छा तथापि केवलिप्रज्ञायाःयावदवधिपर्यन्तं धावनादुच्छासादीनांतनिरूपणाधीननिरूपणत्वाचाचार्यस्य तयोर्निरूपणं युक्तिमदिति, तन्वेतदुत्पवमानमण्डूकैर्गोकलिञ्जभरणं यतः पूर्वसमयसद्भावे उत्तरसमयस्यानुत्पन्नत्वनोत्तरसमयसद्भावे पूर्वसमयस्य विनष्टत्वेन किमिह समुदयसमितिसमागमः सड्गच्छते येनासङ्ख्याततत्पिण्डात्मकताआवलिकादीनांप्रोच्यते? अयं हि समुदयादिधर्मो विमात्रस्निग्धरूक्षपुद्गलादीनां न कालस्येति, सत्यं, यं यं कालविशेष प्ररूपयितुकामेन प्रज्ञापकपुरुषविशेषेण यावन्तो यावन्तःसमयाएकज्ञानविषयीकृतास्तावन्तस्ते समुदयसमितिसमागता उपचर्यन्ते, अतएवायमौपाधिकः कालोन वास्तव इतिनकाचिदनुपपत्ति, सङ्खयेया आवलिका उच्छ्वासः-अन्तर्मुखः पवनः सङ्घयेयाआवलिका निश्वासो-बहिर्मुखः पवनः, सङ्खयेयत्वोपपत्तिश्चैवम्-षट्पञ्चाशदधिकशतद्वयेनावलिकानामेकंक्षुल्लकभवग्रहणंभवति, तानि च सप्तदश सातिरेकाणि उच्छ्वासनि-श्वासकाल इति । मू. (२३) 'हट्ठस्स अणवगल्लस्स, निरुवकिट्टस्स जंतुणो।
एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई। वृ-अथ याशैिरुच्छासैर्मुहूर्तमानं स्यात् तथाऽऽह-हृष्टस्य-पुष्टधातोरनवकल्पस्यजरसाऽनभिभूतस्य निरुपक्लिष्टस्य-व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य मनुष्यादेरेकः उच्छ्वासेन युक्तो निश्वासः उच्छ्वासनिश्वासो य इति गम्यते एष प्राण इत्युच्यते, धातुहानिजरादिभिरस्वस्थस्यजन्तोरुच्छासनिश्वासस्त्वरितादिस्वरूपतयानस्वभावस्थो भवत्यतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org