SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - १ नामदेवस्वामिकत्वादुपचारेण दक्षिणार्द्धभरतनामा देवः स्वामित्वेनास्यास्तीति अभ्रादित्वादप्रत्यये वा दक्षिणार्द्धभरतं, एवमन्येष्वपि, परंखण्डप्रपातगुहाकूटतमिस्रगुहाकूयोः स कथं?, तत्स्वामिना`र्नृत्तमालकृ तमालयोर्विसध्शनामकत्वात्, न च खण्डप्रपापतगुहाया उफरिवर्ति कूटं खण्डप्रपातगुहाकूटमित्यादिरेवान्वर्थोऽस्त्विति वाच्यं, अत्र सूत्रे दक्षिणार्द्धभरतकूटवत् शेषकूटानामतिदेशात् बृहत्क्षेत्रसमासवृत्तौ “एवं शेषकूटान्यपि स्वस्वाधिपतयोगतः प्रवृत्तान्यवसेयानी’'ति श्रीमलयगिरिसूरिभिरुक्तत्वाच्चेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूटं खण्डप्रपातगुहाकूटं, तमिस्रगुहाधिपस्य कूटं तमिम्नगुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र- "तृतीये कूटे खण्डप्रपातगुहाधिपतिर्देव आधिपत्यं परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते" इति न किमप्यनुपपन्नं । मू (१८) माणिभद्दकूडे 9 वेअड्डकूडे २ पुन्नभद्दकूडे ३ एए तिन्नि कूडा कणगामया सेसा छप्पि रयणमया, दोण्हं विसरिसणामया देवा कयमालए चेव नट्टमालए चेव, सेसाणं छण्हं सरिसणामया रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरिअं असंखेजदीवसमुद्दे वीईवइत्ता अण्णंमि जंबुद्दीवे दीवे बारस जोअणसहस्साइं ओगाहित्ता, एत्थ णं रायहाणीओ भाणिअव्वाओ विजयरायहाणीसरिसयाओ । ८५ वृ-मणिभद्द इत्यादि, द्वयोः कूटयोर्विसध्शनामक देवी स्वामिनी, तद्यथा कृ तमालक श्चैव नृत्तमालकश्चैव तमिस्र गुहाकूटस्य कृ तमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी, शेषाणां षण्णां कूटानां सक्-कूटनामसदृशं नाम येषां ते सध्गनामका देवाः स्वामिनः, यथा दक्षिणार्ध भरतकूटस्य दक्षिणार्द्ध भरतकूटानामा देवः स्वामी, एवमन्येषामपि भावना कार्या । अथ तृतियादिकूटाधिपतीनां राजधान्यः क्य सन्तीति प्रश्नसूचकं सूत्रमाह'रायहाणीओ' त्ति, अत्र निर्वचनसूत्रम्, 'जंबूद्दीवे दीवे' इत्यादि, जंबूद्वीपे द्वीपे इत्यादि सर्वं व्यक्तम्, नवरं खण्डप्रपातगुहाधिपतेर्देवस्य राजधानि खण्डप्रपातगुहाबिधाना माणिभद्रस्य माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि । मू (१९) से केणट्टेणं भंते! एवं वुच्चइ वेअड्ढे पव्वए ?, गोयमा ! वेअड्ढे णं पव्वए भरहं वासं दुहा वभयमाणे २ चिट्ठइ, तंजहा- दाहिणड्ढभरहं च उत्तरड्ढभरहं च, वेअड्ढगिरिकुमारे अ इत्थ देवे महिड्ढीए जाव पलिओवमट्ठिइए परिवसइ । से तेणट्टेणं गोयमा ! एवं वुच्चइ - वेअड्ढे पव्वए २, अदुत्तरं च णं गोअमा ! वेयड्ढस्स पव्वयस्स सासए नामधेज्जे पन्नत्ते जं न कयाइ न आसि न कयाइ न अत्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे । वृ- अथ वैताढ्यनाम्नो निरुक्त पृच्छति - 'से केणट्टेण 'मित्यादि, अत्र प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे तु वैताढ्यः पर्वतः, णमिति प्राग्वत्, भारतं वर्षं - भरतक्षेत्रं द्विधा विभजन् २ तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च तेन भरत क्षेत्रस्य द्वे अर्द्ध करोतीति वैताढ्यः पृषोदरादित्वाद्रूपसिद्धि, अथ प्रकारान्तरेण नामान्वर्थमाह-अथ च वैताढ्यगिरिकुमारोऽत्र देवो महर्द्धिको यावत्करणात् 'महज्जुई' इत्यादिपदसङ्गहः पल्योपमस्थितिकः परिवसति, तेन वेताढ्य इति नामान्वर्थो विजयद्वारवद् ज्ञेयः, सध्शनामकस्वामिकत्वात्, 'अदुत्तरंच ण'मित्यादि प्राग्वत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy