SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१५ रायहाणी भाणिअव्वा जहा विजयस्स देवस्स, एवं सव्वकूडा नेयव्वा जाव वेसमणकूडे परोप्परं पुरच्छिमपञ्चत्थिमेणं, इमेसिं वण्णावासे गाहा वृ. 'कहि ण'मित्यादि, अत्र सर्वापि पदयोजना सुगमा, नवरं प्रासादावतंसकः क्रोशमूर्दोच्चत्वेनार्द्धक्रोशं विष्कम्मेन, अत्र सूत्रेऽनुक्तमप्यर्द्धक्रोशमायामेनेति बोध्यं, 'सेसेसु अपासायाकोसुच्चाअद्धकोसपिहुदीहा' इत्यादिश्रीओमवतिलकसूरिकृतसिरिनिलयमितिक्षेत्रविचारवचनात्, श्रीउमास्वातिकृतेजम्बूद्वीपसमासेतुप्रासादवतंसकः क्रोशार्द्धक्रोशदैयविस्तारः किश्चिन्यूनतदुच्छ्रयः उक्तोऽस्तीति, 'अब्भुग्गयमूसिअ' इत्यादिप्राग्वत्, अथ तत्र यदस्ति तदाह 'तस्सण'मित्यादि सुगम, नवरं सपरिवार ति दक्षिणार्द्धभरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्रस्तुतकूटनामान्वथं पृच्छति-'सेकेणटेण मित्यादि, सर्वचैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षिणार्धाया इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्धभरताया राजधान्या इति, अत्र सूत्रेऽश्यमानमपि 'से तेणटेण'मित्यदि सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये दक्षिणार्द्धभरतकूटमिति, अथास्य राजधानी कासतीति पृच्छति-'कहि ण'मित्यादि व्यक्तं, अथापरकूटवक्तव्यतां दक्षिणार्द्धभरतकूटातिदेशेनाह-“एवंसव्व'इत्यादि, एवं-दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानितृतीयखण्डप्रपातगुहा-कूटादीनि नेतव्यानि-बुद्धिपथं प्रापणीयानि यावन्नवमं वैश्रमणकूट, 'परोप्पर ति परस्परं 'पुरच्छिमपञ्चत्यिमेणं'ति पूर्वापरेण, अयमर्थ-पूर्वपूर्वं पूर्वस्यांउत्तरमुत्तरमपरस्यां, पूर्वापरविभाग-स्यापेक्षिकत्वात्, ‘इमेसि'इत्यादि, एषां कूटानां वर्णकव्यासे-वर्णकविस्तारे इमा-वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति वचनस्य व्यत्ययात् तेषां कूटानां वर्णावासे इमा गाथे ति योजनीयं। मू. (१६) 'मझे वेअडस्स उ कणयमया तिन्नि होति कूडा उ। सेसा पव्वयकूडा सब्वे रयणामया होति। वृ. 'मज्झे वेअड्डस्स उ' इत्यादि, तुशब्दो विशेषे स च व्यवहितसम्बन्धः, तेन वैताढ्यस्य मध्येतु चतुर्थपञ्चमषष्ठरूपाणित्रीणिकूटानिकनकमयानि भवन्ति, सूत्रेस्त्रलिङ्गनिर्देश प्राकृतत्वात्, शेषाणि पर्वतकूटानि वैताढ्यवर्षधरमेरुप्रभृतिगिरिकूटानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति हरिस्सहरहरिकूटबलकूटवर्जितानिरत्नमयानि ज्ञातव्यानि, यत्वत्र वैताढ्यप्रकरणे सर्वपर्वतगतकूटज्ञापनं तत्सर्वेषामेकवर्णकत्वेन लाघवार्थं, तथा वैताढ्यस्येत्यत्र जात्यपेक्षयैकवचनं तेन सर्वेषामपि वैताढ्यानां भरतैरावतमहाविदेहविजयगतानांनवसु कूटेषुसर्वमध्यमानि त्रीणि त्रीणि कूटानि कनकमयानि ज्ञातव्यानि । एतदेव वैताढ्ये व्यक्या दर्शयतिमू. (१७) जण्णामया य कूडा तन्नामा खलु हवंति ते देवा । ___ पलिओवमट्टिईया हवंति पत्तेअपत्तेयं ॥ वृ-एनमेवार्थं सविशेषंगाथयाऽऽह-यन्नामकानि कूटानितन्नामानः खलुर्निश्चये भवन्ति देवाः पल्योपमस्थितिका भवन्ति, प्रत्येकं २ प्रतिकूटमित्यर्थ; एतेनाष्टानां कूटानां स्वामिन उक्ताः, सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेन तत्स्वामिदेवानभिधानमिति, ननु दक्षिणार्द्धभरतकूटानां स्वसध्शनामकदेवाश्रयभूतत्वात् नामान्वर्ष सड्गच्छते, यथा दक्षिणार्द्धभरत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy